पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९८ सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.६.अधि.५ अथ चतुर्थं पवमानेष्टयधिकरणम् ॥ ४ ॥ चतुर्थाधिकरणमारचयति- आधानं पवमानादेरिष्टेरङ्गं न वा भवेत् । अग्नीनामिष्टिशेषत्वात्तद्वाराऽस्य तदङ्गता ॥७॥ अनारभ्य विधानात्तु नाऽङ्गं कस्यचिदाहितिः । अग्न्यर्थत्वात्तत्समेष्टिरग्नयस्त्वग्निहोत्रगाः ॥ ८॥ इदमाम्नायते-(१)“अग्नये पवमानायाऽष्टाकपालं निर्वपेत् , अग्नये पावकाय, अग्नये शुचये' इति “वसन्ते ब्राह्मणोऽग्नीनाधीत' इति च । तत्र आधानं पवमाना- दीष्टीनामङ्गं भवेत् । कुतः ? दर्शपूर्णमासविकृतिषु पवमानादीष्टिषु चोदकप्राप्तानामाहव- नीयाद्यग्नीनामिष्टयङ्गत्वे सत्यग्निद्वारा तत्संस्काररूपस्याऽऽधानस्यापि तदङ्गताया अनिवा- र्यत्वात् इति चेत्- मैवम् ; न ह्येतदाधानं कस्यचित्क्रतोः प्रकरणे पठितम् । किंतु अनारम्याधीतम् । अतो न कस्याप्येतदङ्गम् , किंत्वाधानवदिष्टीनामप्यग्निसंस्कारार्थत्वात्परस्परं नाऽस्त्यङ्गा- ङ्गिभावशङ्का । ननु पवमानेष्टयङ्गत्वाभावेऽग्निसंस्कारवैयर्थ्यादग्निद्वारा तदङ्गत्वं युक्तमिति चेत्-न; संस्कृतानामग्नीनामग्निहोत्राद्युत्तरक्रतुषु तत्तद्वाक्यैर्विनियोगावगमात् । तस्मात् नाऽऽधानमङ्गम् । इति चतुर्थ पवमानेष्टयधिकरणम् ॥ ४ ॥ अथ पञ्चममाधानस्य प्रकृतिवृकृत्यथताधिकरणम् ।। ५ ।। पञ्चमाधिकरणमारचयति- आधानं किं प्रकृत्यर्थं वह्निमात्रेण वा युतम् । संस्कृताग्निप्रणाडचैतत्पर्णवत्प्रकृतौ स्थितम् ॥ ९॥ लौकिकाकारमात्रत्वे विफलत्वात्क्रतौ युतिः । पर्णस्याऽऽहवनीयादौ शास्त्रीयेऽस्तु स्वतन्त्रता ॥१०॥ १. पवमानसंज्ञकायाऽग्नयेऽष्टाकपालद्रव्यकं यागं कुर्यात् । एवं पावकसंज्ञकाया- ग्नये, शुचिसंज्ञकायाऽग्नये च पूर्वोक्तं यागं कुर्यात् इति सरलार्थः । इष्टित्रयमिदम् । तिसृणामप्यासां पवमानेष्टय इति व्यवहारः । 2