पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भिक्षनिमित्ताधिकरणम् ] तृतीयोऽध्यायः। १८९ मसी । तत्र चमसिनामेव हारियोजनभक्षणम् । कुतः ? (१)"यथाचमसमन्यांश्चमसां- चमसिनो भक्षयन्ति, अर्थतस्य हारियोजनस्य सर्व एव लिप्सन्ते' इत्यत्र पूर्ववाक्ये चमसिनां सन्निहितत्वेनोत्तरवाक्ये सर्वशब्देन तेषामेवाऽभिधातव्यत्वात् । अतो नाऽस्ति ग्रावस्तुतस्तत्र भक्ष इति प्राप्ते- ब्रूमः-अथशब्देनैवकारेण च चमसिमात्रशङ्कामपोद्य वाक्येन विहितस्य सर्वभ- क्षणस्य सन्निधिमात्रेण संकोचायोगादस्ति ग्रावस्तुतोऽपि भक्षः । तस्मात् चमसित्वं न भक्षणे कारणम् ॥ इति नवमं ग्रावस्तुतस्सोमभक्षाधिकरणम् ॥९॥ अथ दशमं वषट्कर्तुः प्रथमभक्षाधिकरणम् ।।१०।। दशमाधिकरणमारचयति- आद्यभक्षो वषट्कर्तुर्विधिः प्राथम्य एव किम् । किं वा तद्युक्तभक्षे स्याद्वषट्कारानिमित्तके ॥ १६ ॥ अप्राप्तेरग्रिमो, मैवं समासस्थित्यसंभवात् । विशिष्टस्य विधिस्तस्माद्वषट्कारोऽपि कारणम् ॥ १७॥ (२)“वषट्कर्तुः प्रथमभक्षः' इत्येवं श्रूयते । वषट्कर्ता होता। तस्य भक्षणं समाख्यया प्राप्तम् । प्राथम्यं त्वप्राप्तमिति तदेवाऽत्र विधीयते इति चेत्- मैवम् ; 'प्रथमभक्षः' इत्यस्य समस्तपदत्वेन ‘यो भक्षः, स प्रथमः' इत्येवं विच्छिद्याऽन्वेतुमयोग्यत्वात्प्राथम्यविशिष्टभक्षणमत्र विधीयते । तस्मिन् भक्षणे वषट्कारः इति दशमं वषट्कर्तुः प्रथमभक्षाधिकरणम् ॥ १० ॥ कारणम् ॥ अथैकादशं होमाभिषवयोर्भक्षनिमित्तत्वाधिकरणम् ।।११।। एकादशाधिकरणमारचयति- आख्यावचोवषट्कारा एव किं भक्षहेतवः । किं वाऽभिपवहोमौ च तत्राऽऽद्योऽस्तूक्तया दिशा ॥ १८ ॥ १. मा. श. वा. ४. ४. ३. १०. चमसिनः होतृमैत्रावरुणादयः स्वं स्वं चमसं यथाधिकारं भक्षयन्ति । हारियोजनग्रहे तु सर्वेषां भागेऽस्ति इत्यर्थः । २. यो यस्मिन् ग्रहे चमसे वा याज्याया अधि वषट्करोति स तस्य ग्रहस्य प्रथम भक्षयिता इत्यर्थः ।