६० पुरुष एवेदं सर्वं यद् भूतं यच भाव्यम् । उतामृतत्वस्येशानो यदन्ननातिरोहति ५॥ १ ॥ (य. सं. ३१।२) समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः मुसहासति ॥ २ ॥’ (ऋ. मं. ८॥८॥४९) इत्यादौ भावियमिलेयेवं (वह्) इत्येवं च वर्णाभ्युचयेनोच्चारणादष्टाक्षरत्वम् । नदिन्थं वेदिकानां व्यवहारे पादपूरणानुरोधेन व्यूहः यवहम्वराणामितरवर्णसमभिव्याहारानु कूल्यप्रातिकूल्यतारतम्यसापेक्ष्यमभ्युचयेनाविद्यमानवद्भावेन वेति छान्दसी परिभाषा इत्थं व्यूहोऽपि सिद्धो वेदपुरुपाणामुञ्चारण, सिद्धान्वाख्यानं च शात्रं न शक्रोति चिरन्तनव्यवहारसिद्धमर्थमपलपिनुम । अन्न एव पृथ्वीशब्दम्य पृथिवीपृथवी रूपाभ्यामुच्चारितस्यापि दृश्यते विधायकं वैयाकरणवचनम् । यत्र तु न ट् वचनं, सोऽयमन्वाख्यापकदोपो भवतिः न तु व्यवहर्तृणामाद्यानां म्वनन्त्राचार्याणां, नापि वा चिराद् व्यवहियमाणस्यार्थम्येति दिक । अथान्यथा क्रूमः नास्येव सर्वत्र नियमेनार्थिकविच्छेदविरतिग्रकृप्तिरिति । अनुष्टुभः सर्वच्छन्दस्त्वोप पादकमैत्रायणीयश्रुतौ यजुर्मत्राणामनुक्रमणिक्रोक्तच्छन्दोव्यवहारे चानपेक्ष्यैवार्थिकं पदं छन्दःखरूपोपपादनात् ॥ तस्मादुपपन्नो वैदिकव्यवहार इति चेत्-तन्न; छन्दःखरूपसिद्धौ सर्वथैवार्थानपेक्षाय छन्दःसाङ्कर्यप्रसक्त एदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्धे । ऋक्सामाभ्यां सन्तरन्तो यजुर्भ रायस्पोषेण समिषा मदेम । इमा आपः शमु मे सन्तु देवी ओषधे त्रायख खधिते मैनै हिँसीः ॥’ इत्यस्यां सप्तत्यक्षरायां विराड्रूपायां ब्राह्मीजगल्यामेकादशाक्षरैश्चतुर्भिरराष्र्यात्रिष्टुभ स्रयोदशाक्षराभ्यां चासुर्योरनुष्टुभोरपि संभवात् । उपलक्षणमेतत् । द्वादशाक्षराभ्या मेकादशाक्षराभ्यां च षट्चत्वारिंशदक्षराया विराडाषजगतीत्वेऽभ्युपगते चतुर्विश त्यक्षरावशेषादार्षगायत्रीत्वसंसिद्धः । न च ‘देवतादितश्च'(छ.शा. ३॥६२)इत्याद्यनुशानः दिष्टसिद्धिः । ब्राहीजगल्यामाषजगतीत्वादिना साङ्कर्यस्येदानीमप्यनिरोधात् । तस्माद्भ गतिसिद्धमार्थिकं विरतिमत्पदमनुरुद्वयैव तत्तछन्दोऽवयवभूतानां पदानां पदाख्यानां व्यवस्था शक्या प्रतिपत्तुम्,-अतस्तदवस्थमसामञ्जस्यम् ॥ अत्रोच्यते-लौकिकच्छन्दसि तावद् गतिस्तत्रम् । गतिबलापतिता हि यतिर्गत्यनु मानुरोधादेव पञ्चधा खरूपं धत्त । अयतिः, यतिः, विरतिः, विच्छेदः, अवसायश्वति ।
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/६३
दिखावट