पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ मायुवत, दशभिरन्तरिक्षम्, दशभिर्दिवम्, चतुर्भिश्चतस्रो दिशः, द्वाभ्यामेवास्मिलोके प्रत्यतिष्ठन् । तस्मादेतां बृहतीत्याचक्षते ।” इल्यैतरेयश्रुत्या संवत्सरवलयात्मकबृहतीव्याप्यैकपदा-विराजोऽक्षरत्वमाख्यायते । विराजोऽपि भूयस्यः कृप्तयो भवन्ति । तैत्तिरीयके तावत् “नव प्रयाजा इज्यन्ते नवानुयाजाः, अध्यै हवींषि, द्वावाघारौ, द्वावाज्यभागौ । त्रिंशत्संपद्यन्ते । त्रिंशदक्षरा विराट् ।” इत्येवं प्रयाजादीनामक्षरत्वमाह । मैत्रायणीयकेऽप्येवम् प्राणेभ्यो वै ताः प्रजाः प्राजायन्त । प्राणा वा एतानि नव हवींषि । नव हेि प्राणाः । आत्मा देवता । ततः प्रजायते । नव प्रयाजाः, नवानुयाजाः, द्वावाज्य भागौ, अथै हवींषि, अये समवद्यति । वाजिनो यजति । तत्रिंशत् । त्रिंशदक्षरा विराट् । विराज्येव प्रतितिष्ठति । विराजो वै योनेः प्रजापतिः प्रजा असृजत । विराजो वा एतद्योनेर्यजमानः प्रजायते । त्रिंशत् । त्रिंशद्वै रात्रयो मासः । यो मासः स संव त्सरः । संवत्सरः प्रजापतिः । तत्प्रजापतेश्च वा एतद्विराजश्च योनेर्मिथुनाद् यजमन इति प्रयाजादीनामिव त्रिंशद्रात्रीणां विराडक्षरत्वमुच्यते अथ माध्यन्दिनीयके शूर्प चामिहोत्रहवणीं च, स्फ्यं च कपालानि च, शम्यां च कृष्णाजिनं च, उलूखल मुसले, दृषदुपले । तद्दश, दशाक्षरा विराट् । विराड् वै यज्ञः ।’ यदु गायत्री च, पङ्किश्व-ते द्वे अनुष्टुभौ । यदुणिक् च, बृहती च-ते द्वे अनु टुभौ । यदु द्विपदा च विंशत्यक्षरा, त्रिष्टुप् च, ते द्वे अनुष्टुभौ । यदु द्विपदा च षोड: शाक्षरा, जगती च–ते द्वे अनुष्टुभौ ॥’ इत्येवं कृत्वा द्वयोर्द्धयोरनुष्टुप्त्वम्, तथा अनुष्टुप्पङ्कयोरुष्णिक्त्रिष्टुभोगर्गायत्रीजगत्योश्च बृहतीत्वमिति विजातीयच्छन्दोद्वयाक्षराणां सजातीयछन्दोद्भयाक्षरत्वमाख्यायते । तदेत न्यत्रान्यत्र भूयसा तत्तच्छन्दःखरूपंनिर्वचनपरतत्तच्छौतवचनपरिशीलनया चत्वा रोऽर्था निष्कृष्य सिध्यन्ति (१) छन्दःखरूपनिरूपकतयाभिप्रेतस्य यथेष्टसमुदायावयवतां गतस्य यस्य कस्यापि ऋन्यजातस्य गुणजातस्य वा छन्दःपरिभाषायामक्षरसंज्ञा-इत्येकः ॥ (२) क-तादृशैश्चाक्षराख्यैव्यगुणैश्चतुर्विंशतिसंख्यापूरणे च सा मर्यादा गायत्री अष्टाविंशतिसंख्यापूरणे उष्णिगेित्येवं चतुरुत्तराणि तानि छन्दांसि च सा मर्यादा तानि वेदितव्यानि । उत्तरोत्तरमेकैकाक्षरवर्धितपादत्वात् ॥