१९४ काव्यमाला । स्थाने निधाय तावदुणान् कुर्यात् । ततोऽष्टावष्टाभिर्गुणिताश्चतुःषष्टिर्भवन्ति गायत्रीसम वृत्तानि । अनेनैव न्यायेनाष्टाविंशत्यधिकशतमुष्णिहः, षट्पञ्चाशदधिके द्वे शते अनुष्ठभः, द्वादशोत्तराणि पञ्च शतानि बृहत्याः, चतुर्विंशत्यधिकं सहषं पङ्गेः, अष्टचत्वारिंशदधिके द्वे सहले त्रिष्टुभः, षण्णवत्यधिकानि चत्वारि सहस्राणि जगत्याः । एवमतिच्छन्दसां कृतीनां च द्रष्टव्यम् । द्विनं तदन्तानाम् ॥ ८ ॥ ३२ ॥ गायत्र्यादिवृत्तसङ्काजातं द्विगुणीकृत्य द्वाभ्यामूनं कुर्यात् । तत्तदन्तानां परिमाणं भवति । यस्यू छन्दसः सङ्कया द्विगुणिता, तत्पर्यन्तानां पूर्वेषामेकाक्षरप्रभृतीनां सङ्खया भवतीत्यर्थः । परे पूर्णम् ॥ ८ ॥ ३४ ॥ तदेतच्छन्दोवृत्तसङ्कयाजातं द्विगुणितं पूर्णमेव स्थापयितव्यम्, न द्वयूनम्। परे छन्दसि १. इतः परम् एकोनेऽध्वा ॥ ८ ॥ ३३ ॥ इति सूत्रमधिकं पठ्यते वैदिकैः, अनुवादोऽप्यस्याप राणे दृश्यते-+(३३५॥४) अध्वाङ्गुलमधोऽर्धतः । सङ्खचैव द्विगुणैकोना’ इति । एतदभावे च षट्प्रत्यपूर्तिरपि न भवति, अध्वप्रत्याभावात् । न चासावत्रोपेक्षित एवेति साम्प्रतम्, शास्रवैकल्यापतेः षण्मात्रमुवाच पिङ्गलः सूत्रम् ।***प्रल्यहेतोः खशास्रादौ ॥’ इति परिभाषासाङ्गल्याप तेश्च । अतः सम्प्रदायशुद्धमावश्यकं चैतत्सूत्रम् । हलायुधेनाव्याख्यानं त्वनुपलब्धत्वा देवेति षष्ठप्रत्ययोऽपि' (पृ० १९६ पं० १) इत्यादितलेखादेव व्यक्तम् । उक्तरीत्या द्विगुणीकृता वृत्तसङ्कया एकेन ऊना अध्वा प्रस्तारलेखनाधिकरणदेशी भवतीति । अत्र विशेषो रखाकरेः ‘सङ्खचैव द्विगुणैकोनासद्भिरध्वा प्रकीर्तितः । वृत्तस्याङ्गुलिकी व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥’ इति । अयमर्थः-अङ्गुलिविस्तारा गुरुलघवो लेख्याः । अधोऽन्तरालदेशेऽप्यङ्गुलविस्तारदेशं लयक्त्वा वृत्तप्रस्तारमेदा लेख्याः । तथा च त्र्यक्षरादौ पञ्चदशाद्यङ्गुलोचता स्पष्टीभवतीति । अत्र न्यूनाधिकप्रमाणसम्भवेऽप्यनुगतस्य शास्रार्थत्वादङ्कलप्रमाणमुक्तम् । अन्तरदेशे ऽङ्कलल्यागस्तूद्दिष्टानुसारात् । वस्तुतस्तु गुरुलधूनां यत्प्रमाणम्, तत्प्रमाणकान्तरालदेशः त्याग इतीह विवक्षितम् । तेन प्रस्ताराधिकरणदेशप्रमाणसङ्कापि तत्प्रमाणगतैवेति ज्ञेयम् ।-ति सेतुः ।
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३१८
दिखावट