७ अध्यायः ] छन्दःशास्त्रम् । प्रथमश्चण्डवृष्टिप्रयातः ॥ ७ । ३४ ।। यः सप्तविंशत्यक्षरपादः प्रथमो दण्डकः स चण्डवृष्टिप्रयातो नाम । पूर्वमेवोदाहरणम् । अन्यत्र रातमाण्डव्याभ्याम् ॥ ७ ॥ ३५ ॥ रातमाण्डव्याभ्यां ऋषिभ्यामन्यत्रास्याभिधानमेतदेव, ताभ्यां पुनरन्यैव संज्ञा कृतास्य वृत्तस्य । रातमाण्डव्यग्रहणं पूजार्थम् । शेषः प्रचित इति ।। ७ । ३६ ।। १७७ १. प्रपात इति कचित्पाठः । २. अत्र रातमाण्डव्योक्तसंज्ञान्तरसत्वे ‘स्कन्धोग्रीवी क्रोष्टुकेः’ (३॥२९) ‘सिंहोन्नता काश्यपस्य’ (७९) इत्यादिवत् तन्निर्देशस्यैव न्याय्य त्वात्, ग्रन्थान्तरेष्वप्यस्य संज्ञान्तरादर्शनात्, प्रथमपदसूचितानामन्येषां संज्ञानुत्क्तन्यून त्वापादकत्वात्, एतदीयानुवादेऽपुिराणे (३३४॥३०)–‘रेफवृद्धयार्णवाः स्युव्य लजीमूतमुख्यकाः ।' इति तत्संज्ञोक्तरनुपपद्यमानत्वाच्च सूत्रमिदमन्यथा व्याख्येयम् अन्यत्र द्वितीयादिषु दण्डंकेषु संज्ञा रातमाण्डव्याभ्यामुक्ताः । ता एव खस्यापि सम्मता इति न पुनरुच्यन्त इति भावः । यद्वा-उत्तरसूत्रयोगेन व्याख्येयम्-रातमाण्डव्याभ्यामः न्यत्र शेषोऽवशिष्टो दण्डकप्रस्तारः प्रचितसंज्ञः । ताभ्यां पुनः प्रत्येकं पृथक् संज्ञा अर्णा र्णवादयः कृताः प्रसिद्धा एवेति ॥ तथा च रखाकरे (३॥१२)–‘प्रतिचरणविवृद्धरेफाः स्युरर्णार्णव-व्याल-जीमूत लीलाकरो-द्दाम-शङ्कादयः ।' इति । आदिपदात् पञ्चदशादिभी रगणैर्घटितपादाः क्रमेण ‘आराम-सङ्काम-सुराम-वैकुण्ठ-सार-कासार-विसार-संहार-नीहार-मन्दार–केदार आसार-सत्कार-संस्कार-माकन्द-गोविन्द-सानन्द-सन्दोह-आनन्द' इलेते ग्राह्या इति तर्कवाचस्पतिः । सिंहसमुद्रभुजङ्गाद्या इति रक्षाकरपञ्चिका । एकन्यूनसहस्रार्णपर्यन्तं दण्डका मताः ॥’-इति श्रीकृष्णः । ३. शेष इति । अनुक्तनान्नां दण्डकानां प्रचित इत्येव संज्ञा इति भास्करः । शेषो रगणेतरयगणादिघटितः इत्यन्ये । तथा च रखाकरे (३॥१३)-‘प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभियैः ।' इति । ‘यैरित्यन्येषामपि गणानामु पलक्षणम्, कविप्रयोगांतू तघटितानामपि दण्डकानामिष्टत्वात् ।' इति सेतुः । पश्चि काकृतु-नद्वयात्परतस्तकारेणापि कचेिद्दण्डका दृश्यन्ते’ इति सूत्रमेव पपाठं । कुमुदाब्जतरङ्गादिनान्नां भेदाश्च पूर्ववत् ॥’-इति कृष्णः ।
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३०३
दिखावट