पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ] छन्दःशास्त्रम् । तिस्रास्तिस्रः सनाध्य एकैका ब्राह्मयः । २ । १५ ।। याजुषीं पङ्किमारभ्य तिस्रो याजुषी साम्री आचीं चेति गायत्र्यो मिलिता एका षट्त्रं दक्षरा ब्राह्मी गायत्री भवति । सनाम्रय इत्येकसंज्ञा इत्यर्थः । तिस्रस्तिस्र इति वीप्सया रेषामुष्णिगादीनामिह ग्रहणम् । तथैकैकेति वीप्सया ता एव ब्राह्मयो भवन्तीति विधीयते । ब्राय इति गायत्र्यादीनां जगतीपर्यन्तानां विशेषणमेव । याजुषी साम्री आच चोष्णि श्चिलिता एकीकृता द्वाचत्वारिंशदक्षरा ब्राड्युष्णिग्भवति । एवं तिस्रोऽनुष्टुभः संगता सत्योऽष्टाचत्वारिंशदक्षरैका ब्राह्वयनुष्टुब् भवति । ता एव तिस्रो बृहत्यः संगताः सत्य श्चतुःपञ्चाशदक्षरा एका ब्राह्मी बृहती भवति । ता एव तिस्रः पङ्कयः संगताः षझधक्षरा एका ब्राह्मी पङ्किर्भवति । ता एव तिस्रत्रिष्टुभः संगवाः षट्षष्ठयक्षरा एका ब्राह्मी त्रिष्टुप भवति । ता एव तिस्रो जगल्यः संगता द्वासप्तल्यक्षरा एका ब्राह्मी जगती भवति । अत्राष्टम्यां पङ्कौ प्रथमे कोष्ठ ब्राह्मीशब्दं व्यवस्थाप्य द्वितीयादौ क्रमेण गायत्र्यादीनां षट्त्रंशदा( ३६) द्यङ्कान् विन्यसेत् ॥ प्राग्यजुषामाष्ये इति । २ । १६ तिस्रतिस्र इत्यनुवर्तते । यजुषां पङ्कः प्राक् प्राजापत्या आसुरी दैवीति यास्तिस्रो गायत्र्यः, ताः संगताः सत्यश्चतुर्विशत्यक्षरा एका आषीं गायत्री भवति । ता एव तिरु उष्णिहः संगता अष्टाविंशत्यक्षरा एका आर्षीं उष्णिक् संपद्यते । ता एव तिस्रोऽनुष्टुभः संगता द्वात्रिंशदक्षरा एका आर्षी अनुष्टुब् भवति । ता एव तिस्रो बृहल्यः संगताः षट्त्रंशदक्षरा एका आर्षी बृहती भवति । ता एव तिस्रः पङ्कयः संगताश्चत्वारिंशदक्षरा एका आर्ष पङ्किर्भवति । ता एव तिस्रत्रिष्टभः संगताश्चतुश्चत्वारिंशदक्षरा एका आषीं त्रिष्टुव भवति । ता एव तिस्रो जगत्यः संगताः अष्टाचत्वारिंशदक्षरा एका आर्थी जगती भवति । अत्र प्रथमायां पङ्कौ प्रथमे कोठे आषशब्दं व्यवस्थाप्य द्वितीयादिषु क्रमेण चतुर्विंशत्याद्यङ्कान्विन्यसेत् । प्रथमपङ्कद्वितीयादिकोटेष्वङ्कानामुपरि गायत्र्यादीनि नामानि विन्यसेतू । अयं स्पष्टतरः प्रदर्शनोपायै १. गायत्र्यादिसप्तच्छन्दसामाष्र्याद्यष्टसंज्ञाभिः षट्पञ्चाशद्वेदाः । तेषामुदाहरणानि वृत्तिकृता न दर्शितानि । अतः स्थालीपुलाकन्यायेन कानिचित्प्रदइर्यन्ते—तत्र आर्षी गायत्री-‘अझिमळेि पुरोहितं यज्ञस्यं देवमृत्विजंम् । होतारं रत्रधार्तमम् ॥' (ऋ. सं. १।१।१।१) ।। दैवी-'ॐ' ॥ आसुरी-‘भगो न चेत्रो अभिर्महोनां दधाति रत्रम् ।’ (सा. सं. पू. ५२॥७॥१०) केचितु–‘आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुव मुश्रोम् ।’ (तै. आ. १०२७) इत्युदाहरन्ति । तत् ‘गायत्री शिरसः***‘यजुश्छन्द (१!८) इत्याश्वलायनपरिशिष्टविरोधादुपेक्ष्यमित्यन्ये । वस्तुतस्तु यजुष्ट्रासुरीत्वयोः सामा न्यविशेषभावेनोपपत्तस्तत्र न कश्चिद्विरोधः ॥ प्राजापत्या-‘इन्द्रो विश्वग्य राजति' ( सा. सं. पू. ५॥२॥७॥१०) । याजुषी-‘वर्षवृद्धमस्’ि (य. तै. सं. १॥१॥२) । साम्री-इमं वृषणं कृणुतैकमिन्माम् (सा. सं. पू. ६॥३॥१०॥६) ‘त एक'मिति व्यूहे