॥ श्रीः ॥ श्रीमत्पिङ्गलाचार्यविरचितं छन्दःशास्त्रम् । श्रीमद्भट्टहलायुधप्रणीतमृतसंजीवेिन्याख्यवृतिसमेतम् । प्रथमोऽध्यायः ।। नमस्तुङ्गशिरश्रुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्माय शंभवें । वेदानां प्रथमास्य कवीनां नयनस्य च । पिङ्गलाचार्यसूत्रस्य मया वृत्तिर्विपास्यते ॥ क्षीराब्धेरमृतं यद्वतं देवैः सदानवैः । छन्दोऽब्धेः पिङ्गला गायैश्छन्दोऽमृतं तथोतम् ॥ श्रीमत्पिङ्कलनागोक्तछन्दःशास्रमहोदयौ वृत्तानि मौक्तिकानीव कानिचेिद्विचिनोम्यहम् ॥ म-य-र-स-त-ज-भ-न-ल-ग-संमितं भ्रमति वासञ्जयं जगति यस्य । स जयति पिङ्गलनागः शिवप्रसादाद्विशुद्धमतिः ॥ त्रिगुरुं विद्धि मकारं लघ्वादिस्मन्वितं यकाराख्यम् । लघुमध्यमं तु रेफ सकारमन्ते गुरुनिबद्धम् । लध्वन्त्यं हि तकारं जकारमुभयोर्लषु विजानीयात् । आदिगुरुं च भकारं नकारमिह पैङ्गले त्रिलधुम् ॥ दीर्घ संयोगपरं तथा पुतं व्यञ्जनान्तमूष्मान्तम् । सानुखारं च गुरुं कचिदवसानेऽपि लध्वन्यम् ॥ १. व्यञ्जनान्तोपादानेनोष्मान्तस्यापि लाभात्पुनरूष्मान्तकथनेन विसर्जनीयलिह्यमू लीयोपध्मानीयानां ग्रहणम् । यथाह रेफ एव च । जिह्वामूलमुपध्मा च विसर्जनीयादेरुपलक्षको बोद्धव्यः ।
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१२२
दिखावट