पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदितमेव तत्रभवतां आयुर्वेदपारावारपारीणानां च पारावारसमुत्तितीपूणां छात्राणां यदिदमायुर्वेदस्य (ठनपाठनप्रचारे अतीव श्रेष्ठतममग्निवेशप्रणीतं चरकप्रतिसंस्कृतं तंत्रम् । नानाविधानां विद्यमानानां आपैकग्रंथानां मध्ये अतीव प्राचीनं तंत्रमिदम् । प्राचीनत्वे सत्यपि अस्य तंत्रस्य अद्यावधि चिकित्सा- विपये नवीनत्वमिव प्रतिभाति न किमपि परिहीनमंत्र विद्यते । कञ्चन अमेरिकन् पंडितस्तु चिकित्सा- सर्वेषु देशेषु यदि चरकोक्ता चिकित्सा सपदि गृहीता स्यात्तर्हि अनारोग्यध्वंसकानां च स्वास्थ्य- संकाणामन्येपां तंत्राणां नावश्यकतेति प्रतिज्ञातवान् । तत्सत्यं खलु चरकतंत्रविषये, प्राचीनानां आयुर्वेदविशारदानां वैद्यवराणामपि “चरकस्तु चिकित्सिते” इति वचनं सुप्रसिद्धम् । यं खलु भरद्वाजा- त्रियः स्यबुद्धिथलाद्गृहीतवान् । तस्मान्महर्पेरनुग्रहं ते ते प्रथितवुद्धितपस्सामर्थ्याः अग्निवेशभेडजतुकर्ण- राशरहारीतक्षारपाण्यादयः प्रापुः । तेषु सर्वेपु स्वयं ज्योतिस्वरूपेषु तंत्रप्रणेतृष्वपि अस्य तंत्रस्य रगनुरग्निवेशस्यैवायुर्वेदोपदेशे तंत्रकर्मणि च बुद्धेर्विशेष एवासीत् । यस्य तंत्रस्य प्रतिसंस्करणे भगवान् पतञ्जलिः स्वयमाविर्भूत्वा कृतसंस्करण आत्मानमुत्तीर्णकृत्यं च धन्यं मेने | यस्य तंत्रस्य इसण्डार्थत्वसेव रक्षितुं पंचनद पुरनिवासी श्रीमान् दृढवलोऽन्येभ्यो वहुभ्यरतंत्रेभ्यो वलोचयं कृत्वा ऋतिपयैरभ्यायैः पूरणमकरोत् । तदिदमतीव श्रेष्ठतमायुर्वेदस्य साक्षात्स्वरूपमित्र विद्यमानं तंत्रं पठनीयं बोधनीयमनुष्टेयम् । अस्य पाठाववोधानुष्टानेषु दुर्जेयविषयाणां च सौलभ्यमासादयितुं कृतपरिश्रमैर्वङ्ग- । देशीयैः श्रीमञ्चरकचतुराननेति सार्थोपाधिकैः पण्डितप्रवरचक्रपाणिभिश्चरकतात्पर्येति नाम्नी "आयुवेद - दीपिकेत्यपरपर्याया टीकाऽज्ञानतमोनिहन्त्री प्रदीपिकेव विरचिता । तत्र तावच्छ्रीमतश्चरकमहामुनेः दुर्भूतस्य समधिकद्विसहस्रसमाख्यः कालः समजनि । चरकसंहितासंपूरक " दृढवलश्च प्रायो वर्षाणां तदशशतीकालप्राचीनश्चेति सम्मतं मतिमताम् । चरकचतुराननः श्रीमच्चक्रपाणिस्तु वङ्गदेशीयः- 'पालनरपतेर्नयनपालस्य सुविख्यातो भिषक् ख्रिस्तीयैकादशशतकमध्यभागे समजनीति निश्चितमेदेति ‘गुसविद्भिः । चरकसंहिताटीका ग्रन्थास्तु - तन्नाद्या १ चरकतात्पर्यटीका आयुर्वेददी पिकेत्यपराभिधाना मञ्चक्रपाणिप्रणीता २ द्वितीया श्रीशिवदासविरचिता ३ तृतीया श्रीकृष्णभिपक्कृतां श्रीकृष्णभाष्यमिति संज्ञिता ४ चतुर्थी श्रीमद्वैद्यवरगङ्गाधरकृता ५ पञ्चमी. वैद्यरत्नकविराजश्रीयोगेन्द्रनाथरचिता साम्प्रतं ॲण्डशो मुद्राप्यते. एतासु शिवदासकृता टीकाऽप्रसिद्धा । तथाच श्रीगोदावरीपरिसरांन्तर्गतपट्खेटक- ग्रामनिवासिना कुलीनेन श्रीकृष्णभिषजा कृतं 'श्रीकृष्णभाष्यमिति वैद्यजीवनदीकायां ( असियाम् ) टीकाकारेण स्ववंशप्रशस्तिग्रसंगतो वर्णितं नाद्यावधि दृष्टिपथं गतं कस्यापि । वैद्यवरगङ्गाधरकृत टीका बजारैर्मुद्रिता साप विरलप्रचारा दुर्लभा च । वैद्यरत्नकविराजजोगेन्द्रनाथविरचिता टीका नाद्यापि संपूर्ण मुद्रिता च । एवं श्रीचरकसंहिताभ्यनाध्यापनप्रसङ्गे एतासु सर्वास्वपि टीकासु एकैवेयं श्रीचरक- टीकमार्गदशनीति युक्तं वक्तुमिदानीम् । तथाच सर्वेष्वपि टीका चरकचतुराननेति सार्थोपपद्धारिणा चक्रदत्तेन कृतेत्यनेनैवास्याः श्रैष्ठ्यं बहूपयोगित्यं च संगच्छते टीका प्रथममतीतकतिपयाच्दै र्वङ्गदेशस्थैः श्रीकविराजहरिनाथ मिश्रैः खण्डश: प्रकाशयितु- . .