पृष्ठम्:चम्पूभारतम्.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
द्वितीय स्तबक ।

जोत्रीतैरुपवीतै कण्ठमावेष्टव ममाय यष्टेर्ममाय विष्टरस्य लक्ष्यमिति व[१] चनेन जातिचापल कुर्वाणान्धरणिगीर्वाणान्भवता पुनराशीरेव जयराशीकरणायालमिति सस्मित निवर्तयत्रमर्त्यपति[२]कुमारो युघि समारोपितधनुर्गुणनिर्गलितेन शरनिकरेण तेषां परेषामधिका दिशि दिशि कादिशीकता दिदेश ।

 तावदस्य राजसघस्य जड्वालतामनुकुर्वभ्दिरिव रथार्वभ्दिरपरार्ण-वाभ्यर्णमवतीर्णवति तूर्णमर्णोजबन्धौ तेन निहिता दिप्तिम[३]परामिव ता दयितामनुरञ्जयन्नयमपि धनजयस्तामेव वासभुवमाससाद ।

स्वेदाम्बुमिर्निटिमलजै पदयो सवित्री-  मार्द्रीचकार स तया सह चापपाणि ।


माकृष्टैरुपवीतैर्यसूत्रै कण्ठमावेष्ट्य । समर्दे त्रुटनभयादिति भाव् । मम यष्टेर्ह्रस्तण्डस्याय पुर स्थितो राजा लक्ष्य भेद्य , मम विष्टरस्य पीठस्याय लक्ष्यम् , इत्युक्तप्रकारेण वचनेनोपलक्षिताञ्जातेर्व्राह्मणस्य सबन्धि चापल चपलचेष्टित कुर्वाणान्धरण्या गीर्वाणान्भूदेवान्द्राह्मणान्भवता पुनराशीर्जयाशी सा वाक्यमेव जयाना राशीकरणाय राश्यात्मना सपादनाय । सपद्यर्थककरोतियोगात्रवाविकारस्य दीर्घ । अल पर्याप्ता । न तु बाहुबलमित्यर्थ । ' वाग्भि शूरा द्विजातय ' इति स्मरणदिति भाव । इत्युक्त्वेति शेष । सस्मित यया तथा निवर्तयन् । जातिचापलदिति भाव । अमर्त्यपतेरिन्द्रस्य कुमारोsर्जुन सम्यगारोपितात्कोटि नीताघ्दनुषो गुणात् निरर्गल निर्निरोध यथा तथा निर्गलितेन प्रयुक्तेन शरणा निकरेण युधि युध्दे तेषा द्रुपदाय हुह्यता परेषा शत्रूणा दिशि दिशि प्रतिदिश कादिशीकता भयात्पलायनमधिकमत्यन्त दिदेश ददौ । पलायावभूवुरित्यर्थ ॥

 ताचदिति । तावत्तदानीमस्य पलायमानस्य राजसघस्य जहालता पैलायुनजवम् । ' जह्वालोsतिजवस्तुत्यौ ' इत्यमर । अनुकुर्वभ्दिरिव स्थितै रथसमारोपितार्वभ्दिरक्ष्वैरर्णोजाना जलजाना बन्धौ सुर्ये अपरार्णवस पक्ष्चिमाब्धेरभ्य्र्ण समीप तूर्ण सत्वर यथा तथावतीर्णवति प्राप्तवति सति तेना र्णोजबन्धुना निहिता निक्षिप्तामपरामग्निनिहितेतरा दीप्ति प्रभामिव स्थिता ता दयिता द्रौपदीमनुरञ्ननुरागिणीं सप्तवर्णा च कुर्वन् । अयमपील्यपिनाग्निसमुञ्चय । धनजयोsर्जुन अग्निक्ष्च ता कुलालसबन्धिनीमेव वासमुवमाससाद प्राप्तवान् । सूर्यकिरणाना रात्रावग्निप्रवेशनमागमदसिध्दम् । उत्प्रेक्षाद्वयस्य धनजयशब्दक्ष्लेष- मूलतिशयोक्तेक्ष्चाङाग्ङिभावेन सकर ॥

 स्वेदेति । चाप पाणौ यस्य तथोक्त सोsर्जुनस्त्या द्रौपद्या सह निटिलजै-


  1. 'वचनन' इति नास्ति कचित्
  2. 'कुमारोअपि समा' इति पाठ
  3. 'अपर इव' इति पाठ