पृष्ठम्:चम्पूभारतम्.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१६
चम्पूभारते


 तावत्परेषा ध्वजिनीश्वरोऽपि पद [१] न्यधत्त प्रधनप्रदेशे ।
 परिस्फुरत्प[२]ट्टसशक्तियष्टिशरासतूणीरशरैर्बलौघे ॥ ४ ॥
 चमूद्वयी सा तदनु प्रगल्भा विसृ [३]त्वरैर्व्योमनि पासुपुञ्जै ।
 प्रागेव शुद्धामपि सिद्धसिन्धु विचित्रमेतव्घतनोदपापाम् ॥ ५ ॥
 पादात पादात रथ्या र[४]भ्या च हास्तिक गजता ।
 [५]आक्ष्वीय चाक्ष्वीय द्रागभिदुद्राव क[६]म्पितमहीकम् ॥ ६ ॥
विरोधिसेनामभिवीक्ष्य कोपाद्विस्फारिताद्भानुसुतेन चापात् ।
विनृम्भमाण तरसा गुण स्व वियत्समस्त न शशाक वोढुम् ॥ ७ ॥
,


स्थलीं युद्धदेश करे नर्तित शरसधानमोक्षणाम्या 'कम्पित काल्पृष्ठ नाम धनुर्यस्य तथोक्त्त सन्' जगाहे प्रविष्टवान् । गाहते कर्तरि लिट् । वसन्ततिलका ॥ ३ ॥

 तावदिति । तावत् तदानीमेव परेषा पाण्डवाना सबन्धिन्या | ध्वजिन्या सेनाया ईश्वर धृष्टघुम्नोऽपि परित स्फुरन्त प्रकाशमाना पट्टसा शक्तय यष्टय शरासा चापा तूणीरा निषङ्गा शरा येषा तै बलौघैरुपलक्षित प्रधन ग्रदेशे युद्धभुवि पद पाद न्यधत्त निहितवान्। दधाते कर्तरि लड्। उपजाति ॥४॥

 चम्विति । तदतु प्रगल्भा युद्धकुशला सा चम्वो कौरवपाण्डवसेनयो द्वयी युग्म व्योमनि विसृत्वरै व्याप्नुवद्धि पासूना धूलीना पदधट्टनोत्थाना पुञ्जै राशिभि (करणै ) प्राक् पूर्वमेव शुद्धा निष्पापामपि निर्मलामपीति च । सिद्धसिन्धु आकाशगङ्गा अपापा निष्पापा अपगत अपा जलाना समूह आप ग्रस्यास्तथोक्त्तामिति च । व्यतनोत् चकारेति यत् तदेतद्विचित्रम् । तनोतेर्धिपूर्वात्कर्तरि लड्। अत्याक्ष्चर्यम् । अत्र क्ष्लेषप्रतिभोत्थापितयोविरोधाभासविरुद्धकार्योत्पत्तिरूपविषमप्रभेदयोरेकवाचकानुप्रवेशसकर ॥ ५ ॥

 पादातमिति । पदातीना समूह पादात पादात पदातिसमूहम् । रथाना समूह रथ्या । रथिक्समूह इति यावत् । एवमग्रेऽपि । रथ्या च। गजाना समूहो गजता हास्तिक गजसमूह च । आश्वीय अश्वसमूह आक्ष्वीय अश्वसमूह च । द्राक् द्रुत कम्पिता मही यस्मिस्तथा अभिदुद्राव अभिमुख धावति स्म । द्वन्द्वयुद्धायेति भाव । अभिपूर्वाद्रवते कर्तरि लिट् । पादातमित्यादावणादय समूहार्थे तद्धिता । गीतिराय ॥ ६ ॥

 विरोधीति । विरोधिना शत्रुणा सेना अभिवीक्ष्य कोपात् भानुसुतेन कर्णेन विस्फारितात् टङ्कारितात् चापात्कालपृष्ठात् विजृम्भमाण वर्धमान स्व स्वीय गुण शब्द वोढु धर्तु समस्तमपि वियत् आकाश न शशाक न क्षमते स्म । शन्कोते कर्तरि लिट्। सबन्धेऽसंबन्धरूपातिशयोक्त्ति । उपजाति ॥ ७ ॥


  1. ‘व्यधत्त’ इति पाठ
  2. ‘पट्टिशखेटशक्तिशरास’ इति पाठ
  3. ‘प्रसृत्वरै’ इति पाठ
  4. रध्या’ इति पाठ
  5. ‘आश्व’ इति पाठ
  6. ‘प्रकम्पित’ इति पाठ