पृष्ठम्:चम्पूभारतम्.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
षष्ठ स्तबक ।

सुदति बहुपरागधूसरापि त्वमपहरस्यधुना मनो मदीयम् ।
रतिरिव हरकोपदह्यमानस्मरतनुधूम[१] लवावृताखिलाङ्गी ॥ ३१ ॥
त्वामुल्लसद्विम्बफलाधरा मे मामप्यनङ्गशुगमर्दित ते ।
विशङ्कमस्मिन्वि[२]जने प्रदेशे पद्मनने पातुमय हि काल ॥ ३२ ॥

 इति तस्य तादृश वचनमाक[३]र्ण्यापि चित्तचम्पकमञ्जरीचञ्चरीकायमाणपञ्चशरवि[४]कारा पाञ्चाली गिरमिमा स्मररागतिमिरकौमुदीमुदीरयामास ॥


सुदतीति । शोभना दन्ता यस्या सवृद्धि हे सुदति, बहुना सान्द्रेण परा गेण रजसा धूसरा मलिनापि त्व हरस्य शभो कोपेन । तत्प्रसारितफालनयनानलेनेत्यथ । दह्यमानाया स्मरतनो मन्मथशरीरस्य सबन्धिन धूमस्य लवै लेश्त्रै आवृत अङ्ग यस्यास्तथोक्ता रति मन्मथपत्नीव अधुना मदीय मन अपहरसि। अत्र द्रौपद्यास्तथाविधरत्युपमया कीचकस्य हरकोपदह्यमानमदनोपमाया तया च तस्येवास्यापि सनिहितायुरवसानस्य च प्रतीतेरलकारेणालकारवस्तु द्वयध्यनि । ‘अर्था प्रोक्ता पुरा तेषामर्थव्यञ्जकतोच्यते’ इति काव्यप्रकाशे त्रिविधस्याप्यर्थस्य व्यञ्जकत्वप्रतिपादनाह्यङ्गयस्यालकारस्य वस्तुच्यञ्जकत्व नानु पपन्नम् । पुष्पिताग्रा ॥ ३१ ॥

 विवक्षित चार्थमावेदयति-त्वामिति । किच हे पद्मानने, मे मम उल्लसन्, बिम्बफलमिव अधरो यस्यास्ता त्वा पातुम् । त्वदधरमास्वादयितुमित्यर्थ । ते तव अनङ्गाशुगै मन्मथबाणै मदित पीडित मामपि अस्मिन्विजने प्रदेशे एकान्ते विशङ्क नि शङ्क यथातथेति पदद्वय पूर्वत्रापि योज्यम् । पातु रक्षितु अयमेव काल । हिरेवकारार्थ । अहो देशकालावप्युक्ताथऽनुकूलावित्यावयोर्भग्यमनन्यादृशमिति भाव । अत्र बिम्बाधरत्वानङ्ग बाणमर्दनैकान्तै तत्काले पानावसरत्वसमर्थनादने कपदार्थहेतुकस्य काव्यलिङ्गस्य बिम्बाधरेत्युपमाया श्लेषभित्तिकालब्धपानरक्षणाभेदाध्यवसायमूलातिशयोक्ते उक्तक्रियाद्वययौगपद्यात्मकसमुच्चयस्य च चतु र्णामेकवाचकानुप्रवेशसकर ॥ ३२ ॥

 इतीति । इति उक्तप्रकारेण तादृश स्मरविकारकृत तस्य कीचकस्य तस्य कीचकस्य आकण्र्यापीत्यपिना किमुतानाकर्णन इति ध्वन्यते । चित्तस्यैव चम्पकमञ्जर्या चम्पकगुच्छस्य चञ्चरीक भृङ्ग इवाचरतीति चञ्चरीकायमाण । दूरीभूत इति यावत् । पञ्चशरस्य मन्मथस्य सबन्धी विकार यस्यास्तथोक्ता पाञ्चली द्रौपदी स्मग्रागस्य मन्मथविकारस्येव तिमिरस्य कौमुदी चन्द्रिकाम्। तन्निरसनी इति परम्परितरूपकम् । इमा वक्ष्यमाणा गिर वाच उदीरयामास उक्तवती । अत्र तादृग्वचनाकर्णन रूप-


  1. ’लवाविलाखिलाङ्गी’ इति पाठ
  2. ‘विजन' इति पाठ
  3. ‘अपि’ इति नास्ति कचिव्
  4. विकारिका' इति पाठ