पृष्ठम्:चम्पूभारतम्.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८१
चतुर्थ स्तबक ।


 अस्मिन्ममावसथमापतिते मया प्रा-
  ग्लक्षीकृते शबर यत्प्रहृत त्वया तत् ।
 शापस्य वाथ धनुषोऽसि व[१]शे तथापि
  सोढ ममाद्य तपसा च भुजोष्मणा च ॥ ७७ ॥

 इति तस्य मुनेरन्तर्दर्परसपरीवाहवेणीमिव वाणीमाकर्ण्य क्षोणीधरधन्वापि सस्मित प्रत्यभाणीत् ।

मृदुबुद्धिरङ्ग वचसैव लक्ष्यसे मृगहिसन विपिनसीमनीदृशम् । शतश स्खधर्म इति पठ्यते बुधै शबरस्य वा वद तपोधनस्य वा ॥ ७८ ॥

 तत्स्वकुलाचारादप्रमाद्यते मह्यमयुक्तकारिणापि त्व[२]या कियहूर प्रकाश्यते तपसीव[३] बाहावष्याहोपुरुषिका ।


 अस्मिन्निति । हे शबर, मम आवसथ आश्रम प्रति आपतिते आगते कि च मया प्राक्पूर्वमेव लक्षीकृते शरव्यीकृते अस्मिन् वराहे त्वया प्रहृत ताडित इति यत् तदपराधकरण मम शापस्य वशे वर्तते अथवा धनुषो वशेऽपि वर्तते । अन्यतरेणैव वध्य त्वा हन्तु शकुयामित्यर्थ । कितु तथापि मम तपसापि अद्य सोढ क्षान्तम् । लोपभयादिति भाव । भुजोष्मणा च बाहुबलेनापि सोढम् । बलिना दुर्बलैर्युद्धस्य लज्जकरत्वादिति भाव ।यद्यस्मादिति तत्तस्मादिति वा योज्यम् ॥ ७७ ॥

 इतीति । इति उक्तप्रकारा अन्तर्मनसि दर्परसस्य परीवाह उपकुल्या । ‘जलोच्छाव्सा परीवाहा ’ इत्यमर । तस्य वेणी प्रवाहमिव स्थिता तस्य मुने अर्जुनस्य वाणी वाक्य क्षोणीधरो मेरु धनुश्चापो यस्य स शिवोऽपि सस्मित यथात्था प्रत्यभाणीत् प्रयुक्तवान् । प्रतिपूर्वाद्भणते कर्तरि लुड् ॥

 मृदुबुद्धिरिति । अङ्ग हे अर्जुन । ‘अङ्गत्यामन्त्रणेऽव्ययम्' इत्यमर । त्व वन्चसैव मृद्वी शान्ता बुद्धिर्यस्य तथोक्तो लक्ष्यसे दृश्यसे । नतु शीलेनेत्यर्थ । यत विपिनसीमनि ईदृश एवविध भृगहिसन शबरस्य स्वधर्म स्वीयो धर्मे कुल धर्म इति बुधै विद्वद्भि शतश बहुविध पठयते । उत तपोधनस्य स्वधर्म इति पठयते वा । शतश इत्युभयत्र योज्यम् । वद ब्रूहीत्यत्र वाक्यार्थ कर्म । पठते कर्मणि लट् । मजुभाषिणी ॥ ७८ ॥

 तदिति । तत् तस्मात् मृगहिसनस्य शवरधर्मत्वाद्धेतो स्वकुलस्य शबरकुलस्य आचारात् धर्मात् अप्रमाद्यते । तमत्यजत इत्यर्थ ।‘जुगुप्स विराम-'इत्यादिना अपादानत्वम् । मह्यम् । मा प्रतीत्यर्थ । अयुक्त कुलशीलानुचित मृगहिसन करोतीति कारेिण त्वयापि तपसीव बाहावपि उभयत्र । आहोपुरुषिका


  1. ‘बश ’ इति पाठ
  2. ‘त्वया’ इति नास्ति कचिव
  3. ‘इव' इति नास्ति कचित्