पृष्ठम्:चम्पूभारतम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
चम्पूभारते ।

चम्पूभारते भ्या यदुमद्रतनयाभ्यामनुविद्ध सिद्धगणगणनीयमहिमवतो हिमवतो [१] जगाहे महतीमटवीतटवीथिकाम् ।

 तत्र स [२]तावतिक्षुद्धकवनमल्लिकामतल्लिकोद्वेलितधम्मिल्लोऽवलग्रदृढलग्नकच्छपुटविच्छुरितच्छुरिको निषङ्गानुषङ्ग[३]मासलिततमासललित परनिरासनपर शरासनवर करे कुर्वाणो गी[४] र्वाणचक्रवर्तिविक्रम क्रमेण विविधमृगवध विधातुमुपचक्रमे ।[५] भूभुजोऽस्य सविधे विचरन्त्योर्भोजम[६]द्रसुतयोर्द्दशि शोभाम् । जेतुकाममिव सर्वसमष्टधा प्रादुरास पुरतो मृगयूथम् ॥ १६ ॥

क्षोणीपतौ यदकल प्रति कृष्णसार
तूणीमुखे पतितपाणिनखाहुरेऽस्मिन् ।


 तत्रेति । तत्र हिमशैलारण्ये। तावदिति वाक्यालकारे। अतिक्षुल्लकाभि स्वल्पाभि । मृडुलाभिरिति यावत्। वनमल्लिकामतल्लिकाभि प्रशस्तारण्यमल्लिकालताभि । ‘मतल्लिका सचर्चिका’ इति प्रशस्तवाचकेष्वमर । उद्वेल्लित ऊर्घ्व बद्धो धम्मिल्ल कचभारो यस्य स ’वम्मिल्ल सयता कचा’ इत्यमर । अवलग्ने मध्यदेशे दृढ लग्ने बद्धे कच्छपुटे मध्यबन्चनपद्यन्तरे विच्छुरिता प्रविष्टा छुरिका स्वल्पखङ्गवि शेषो यस्य तथोक्त । ’कच्छो जलप्रायदेशे मध्यबन्धनपट्टके’ इति विश्व । तिष ङ्गयोस्तूणीरयोरनुषङ्गे सयोगेन । धारणेनेति यावत् । मासलिततमाभ्या पूरिता भ्यामसाभ्या भुजाग्राभ्या ललितो रमणीयो गीर्वाणाना देवाना चक्रवर्तिना इन्द्रेण समो विक्रमो यस्य तथोक्त्त स पाण्डु परेषा शत्रुणा निरासने पर प्रवण शरा सनवर श्रेष्ठ वनु करे कुर्वाणो दवान सन् क्रमेण विविधाना मृगाणा वध हिंसा विधातु कर्तुमुपचक्रम आरब्धवान् ॥

 भूभुज इति । मृगाणा यूथ कुरङ्गकुलम् । अस्य भूभुज पाण्डो सविधे स भीपे विचरन्योर्भोजसद्रसुतयो कुन्तीमाश्चोद्दशि चक्षुषि या शोभा वैपुल्यनैल्य चाञ्चल्यकृतसौन्दर्य ता सर्वेषा समष्टया मेलनेन । सर्वेऽपि सभूयेत्यर्थ । जेतु कामो थस्य तथोक्तमिवेत्युत्प्रेक्षा । ‘तु कामसनसोरपि’ इति तुमुनो मकारलोप । प्रत्येक तादृशकामस्य गगनकुसुमप्रायत्वात् । ‘बहूनामप्यसाराणा सयोग कार्यसाधक इति न्यायाच्चेति भाव । पुरतोऽग्रे प्रादुरास आविर्बभूव । अत्र सर्वसमष्टथा जेतु काममिवेत्युत्प्रेक्षया कुन्तीमाद्रीनयनसौन्दर्ये लोकोत्तरमिति प्रतीतेरलकारेण वस्तुच्चनि ॥ १६ ॥

 क्षोणीपताविति । क्षोणीपतौ भूनायकेऽस्मिन्पाण्डौ मदकल मण्ड कृष्णसारं प्रति । कृष्णमृगमुद्दिश्येत्यर्थ । यत्तु ‘मदेन कल अव्यक्तमधुरमस्या


  1. ‘अवजमाहे’ इति पाठ
  2. ‘मासळतमा’, मासलितमा’ इति च पाठ,
  3. निरासपर' इति पाठ
  4. ‘गीर्वाणगणचक्र’ इति पाठ
  5. ‘भृगश्च---- इति पाठ
  6. ‘भद्रतनयो ’ इति पाठ