पृष्ठम्:चम्पूभारतम्.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
तृतीय स्तबक ।

 सुखाच्चक्षुश्रवस्तन्व्या सुरते मीलत दृशो ।
 चक्रे [१]मणितवैदग्ध्य तस्य काननकौमुदीम् ॥ २६ ॥
 श्लाघाकम्पात्प्रियरते शिरसोऽन्त पथादध ।
 च्युतो मणिरिवेरावान्सुषुवे तनयस्तया ॥ २७ ॥
 इत्येकिका स रजनीमपनीय तत्र
  श्वासै सम स्खकुलसभवपृष्ठमित्रै ।
 भुक्तस्तया तटगतोऽनुचरान्द्विजाती
  नन्तर्वतोऽद्भुतरसैरतनोत्स्ववृत्त्या ॥ २८ ॥
उलूपिकाया रतिदशनैस्तैरुन्मस्तक मोहमिवापनेतुम् ।
उदप्रवीर्यौषधिजन्मभूमिमुमागुरु शैलमय प्रपेदे ॥ २९ ॥


 सुखादिति । चक्षुषी एव श्रवसी श्रोत्रे यस्यास्तस्यास्तन्व्या उलूपिकाया दृशो र्नेत्रयो सबन्धि सुरते सुखादानन्दान्मीलन (कर्तु) तस्यार्जुनस्य मणितेषु रतिकूजितेषु वेद्ध्य चातुर्य कानने कौमुदीं चन्द्रिका चक्रे । तस्याश्चक्षुषोरेव श्रोत्रत्वातन्मीलनस्य श्रोत्रपिधानात्मकतया मणिताकर्णनायोगादजुनस्य तद्वैदग्ध्य निष्फलमभूदित्यर्थ । ‘वश्व श्रवा काकोदर फणी', ‘मणित रतिकूजितम्’ इत्युभयत्राप्यमर ॥ २६ ॥

 शघेति । तयोलंपिकया प्रियस्यार्जुनस्य रते सुरतस्य लाघायामभि मन्दने कम्पाद्धेतो शिरसोऽन्त पथादन्तर्भागयुतो मणि फणारत्रमिव स्थित इरावान्नाम तनय सुषुवे प्रसूत । उत्प्रेक्षा ॥ २७ ॥

 इतीति । इत्युक्तप्रकारेण तत्र नागकन्यागृहे सोऽर्जुन एकामेवैकिका रजनी रात्रिमपनीय गमयित्वा तया स्खकुलसभवाना सर्पणा पृष्ठस्य मित्रै सह । तद्वदतिदीर्धैर्रिति यावत् । श्वासै सम निश्वासै सह मुक्त सन् । ‘दर्वीकरो दीर्घपृष्ठ ’ इति सर्पपर्यायेष्वमर । तटगतो गङ्गातीर प्राप्तश्च सन् । अनुचराननुयातृकान्समस्तान्द्विजातीन्ब्राह्मणान् । स्वस्य पृत्ताया पृतान्तेन हेतुना अद्भुतरसैरन्तर्वत सगर्भानतनोत् । आक्ष्चर्नपूर्णहृदयाक्ष्चक्र इत्यर्थे । तनोते कर्तरि लट् । ‘अन्तर्वत्नी तु गर्भिणी' इत्यमर । वसन्ततिलका ॥ २८ ॥

 उलूपिकाया इति । अयमर्जुन उलूपिकाया सर्पकन्याया सुबन्धिभिस्तै प्रसिध्दै रतौ दशनैर्दन्तक्षतैरुन्मस्तक मूर्धानमतिक्रान्त मोह विषकृतविकारम् । तद्दन्ताना सविषत्वादिति भाव । अपनेतुमिवेत्युत्नेक्षा । उदन महद्दीर्य विष विकारवारणशक्त्तिर्यासा तासामोषधीना लतामूलिकादीना जन्मभूमिमुत्पत्ति- स्थानमुमाया पार्वत्या गुरु पितर शैल हिमवन्त प्रपेदे प्राप्तवान् । गङ्गातटादिति शेष । उपजाति ॥ २९ ॥


  1. ‘भणितवैदूग्धीम्’ इति पाठ