१५६ राकागमसहिते चन्द्रालाके- त्यर्थः । काव्यप्रकाशे तु-मुख्यतावच्छेदकधर्मभिन्नधर्मावच्छिन्नबोधजनिका पुरुषे च्छा लक्षणा, तेनेश्वरेच्छारूपशक्तितो भेद इत्युक्तम् । सा द्विधा पूर्व अर्वाची च। पूर्वा निरूढिलक्षण प्रयोजनप्रतीत्यनुद्देश्यका । अर्वाची प्रयोजनवती तात्पर्य विषय प्रयोजनप्रतीत्युद्देश्यकेत्यर्थः । यथा, जातिवाचिनो घटादिपदस्य व्यक्ती निरूढलक्षणा ।। ‘कलिङ्गः लिहती’त्यादौ देशवाचिनः पुरुषे, उभयत्र प्रयोजनाभावात् । गङ्गाया घोष इत्यादौ चैत्यपावनत्वादिप्रतीतिप्रयोजनका । अन्न घटादिपदात स्वाश्रयाकाशो- पस्थितेस्तत्र लक्षणावारणाय रूढितः प्रयोजनाच्चेत्युक्तम् ॥ १ ॥ लक्षणीयस्य शब्दस्य मीलनाऽमलनाद् द्विधा ।। लक्षणा सा त्रिधा सिद्धसाध्यसाध्याङ्गभेदतः ॥ २ ॥ लक्षणीयस्येति । लक्षणीयार्थवाचकशब्दस्य मीलनं समभिन्याहारः अमीलन- मसमभिव्याहाः, तेन द्विधा। सिद्धम् उद्देश्यम्, साध्यं विधेयम्, साध्या विधेयान्वयि. तद्वाचकपदनिष्ठत्वेन द्विधापि त्रिवेत्यर्थः । पूर्वोका द्विविधायि लक्षणा लक्ष्यार्थवाचक. पदसमभिव्याहृततसमभिव्याहृतपदनिष्ठत्वेन द्विधा । 'अग्निर्माणवकः शुक्लो घटः इत्यादावाद्यो । 'मञ्चाः क्रोशन्तीत्यादौ द्वितीयेति । एवं द्विविधापि उद्देश्यवाचक पदनिष्ठा विधेयवाचकपदनिष्ठा विधेयान्वयिवाचकपदनिष्ठेति त्रिधा । यथा-'भो वृष ! न बुध्यसे इत्यादौ वृषपदस्योद्देश्यवाचिनो मर्खत्वे, कामिनीवचोऽमृतमिति विधेय. वाचिनोऽमृतपदस्थाऽऽनन्दजनकत्वे, ‘गङ्गाय घोष इत्यादाबुद्देश्यविधेयोऽवाचविधेय. घोषान्वयिवाचिनि गङ्गापदे इति भावः ॥ २ ॥ निरूढिलक्षणाया अध्यङ्ग्यतयाऽवचीभेदान् व्यङ्ग्यभेदेनाह- फुटाऽस्फुटप्रभेदेन प्रयोजनमपि द्विधा । विदुः स्फुटं तटस्थत्वादथंगत्वाद् द्विधा बुधाः ॥ ३ ॥ अस्फुटं चार्थ निष्ठत्वात्तटस्थत्वादपि द्विधा । लक्ष्यळक्षकनिष्ठत्वदर्थसंस्थमपि द्विधा ॥ ४ ॥ लक्षकस्थं स्फुटं यत्र सा विचक्षणलक्षणा । अर्थगत्वतटस्थत्वभेदाभ्यामस्फुटस्य च ॥ ६॥ अन्त्या द्विधेति विज्ञेया व्याक्ततः सा चतुविधा। स्फुटारफुटेति । स्फुटमगूढ अस्फुट गूढम् । तेन गृढव्यङ्ग्या अगूढव्यङ्गया. वेति हौ भदौ । गूढत्वं काव्यभावनापरिपक्वबुद्धिविभवमात्रवेद्यत्वम् । अगूढत्वं सर्वंजनवेद्यत्वम् । स्फुटमपि तटस्थत्वाऽर्थगतत्वभेदेन द्विधा । तदेवत्वं च लक्ष्य लकेतरवृत्तिल्वेन” प्रतीयमानत्वम् । इदं च समासोकावुपयुज्यते । तथा हि-
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२०५
दिखावट