पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० राकागमसहिते चन्द्रालोके- यथा- यथा वा- वीराग्रेसर ! कृष्णरामनृपते ! इस रणप्राङ्गणे | कृताः केचन पारसीकपतयः प्राप्ताः पुरीमामरीम् । ओस्तादेति गुरौ, बलद्विषि सुलत्तानेति, शच्या पुन वीति, प्रणतौ सलामिति सरीन् स्मेराननान् कुवैते ॥-॥६॥ करुणमाह- अभीष्टचिप्रयोगाऽश्रुपातग्लान्यादिभिः क्रमात् । विभावाचैयुतः शोकस्थायी स्यात् करुण रसः ॥ ७ ॥ अभीष्टेति । इष्टनाशादिजनितं चित्तवैकलायै शोकः । इष्टवियोगोऽनिष्टसंयोग योद्दीपनः । अनुपातोऽनुभावः । उलान्यादयो व्यभिचारिणः । अनेन क्रमेण विभावा- दयः । शोकः स्थायी यस्येत्यर्थः । तदुक्तम् । शोकोत्थः करुणो ज्ञेयस्तत्र भूपातरोदने । वैवण्‘मोहनिदप्रलापाश्रूणि कीर्तयेत् ॥ सीतामपास्य त्रपया नतास्यै समागते लक्ष्मणमानिरीक्ष्य । बभूव बाइपाम्बुधिमध्यलीनो गन्तमीनो रघुनन्दनस्य ॥ यथा वा- मदर्थ सन्देशमृणालमन्थरः प्रियः कियदुदूर इति त्वयोदिते । | विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये !स कीडग भविता तव क्षणः॥-॥७॥ रौद्रमाह- क्रोधस्थायी रसो रौद्रो विभावाचैः समन्वितः ।। मात्सर्यहस्तनिष्पेषसंमोहाचैर्यथाक्रमम् ॥ ८॥ क्रोधेति । प्रतिकूलतत्पक्षस्य द्वेषः क्रोधः स्थायी यस्येति विग्रहः । मात्सर्यादि. रुद्दीपनविभावः । मात्सर्यं च दारापहाजातिविद्यादौ पराभवाद् भवतीति । एवञ्च- पराभवादीनामप्युद्दीपकत्वम् । हस्तनिष्पेषादिरनुभावः । संमोहादियभिचारी । स रौद्ररस इत्यर्थः । तदुक्तम्- क्रोधात्मको भवेद् रौद्रः क्रोधश्चाऽरिपराभवात् । भीष्मवृत्तिर्भवेदुग्रः सामर्षस्तत्र नायकः ॥ स्वांसाऽऽघातस्वशस्त्रोपक्षेपभ्रूकुटयस्तथा । अत्रारतिजनाक्षेपो दुलन चोपवण्यँते ॥ के माता पिशाची, क इ स जनको, भ्रातरः केऽत्र कीटा वध्योऽयं बन्धुवर्ग, कुटिलविटसच्चेष्टिता ज्ञातयोमी। यथा-