पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[३]

एवायं भवेदस्य प्रबन्धस्य विषयः । नैवेदं कथनं प्रकृतविषयनिर्मथननिभम् । सत्यमेव बहवो वभूवुरस्मिन् सुरभारतीरते भारतेकवयः कोविदाश्च, ये जयदेवाख्यया ख्यापया- मासुः सर्वतोऽद्भुततरं स्वकीयं यशः । शर्मण्यपण्डित औफ्रेक्टः स्वकीये ‘सूचीपत्राणां सूचीपत्रे(१) तत्तद्ग्रन्थनामनिर्देशपुरस्सरं पञ्चदशानां जयदेवानां नामान्युल्लिखति । बहूनि हायनानि व्यतीतानि लिखितस्य तस्य सूचीपत्रस्य । एतदन्तरे मन्ये केचिदन्येऽपि जयदेवाभिचयव्यग्रैर्गृहीता भवेयुः । नाऽस्ति नाम्नां परिमितिः ।तदलं जयदेवाभिधधारिणां सुधियामभिधानगणनाव्यासङ्गैः । परिजिहीर्ष्र्यमाणापि नामुं व्यापारमन्तरा सेत्स्यति नः कार्यम् । न खलु यावन्तो जयदेवा बभूवुस्ते सर्वे ग्रन्थमेकमेव लिखित्वा विगतशक्तयो बभूवुः । तन्नैव संभाव्यते यत् सर्व एवैते परस्परभिन्ना एवाऽभूवन् । एतेषां मध्ये कतिपयैरेतादृशैर्भवितव्यं येषां नामानि बहु- ग्रन्थविरचनयाऽनेकशो गृहीतानि भवेयुः । भवतु, प्रवर्ततामेषां नामाद्यनु सूक्ष्मा परीक्षा । पीयूषवर्षापरनामधेयमेव जयदेवमादौ तावदन्विष्यामः ।। अस्ति चन्द्रालोकनामाऽलङ्कारग्रन्थो यस्य प्रणेता जयदेव आत्मानं पीयूषवर्षा- भिधया प्रधयति । यथोक्तमनेन चन्द्रालोकस्यादावेव--

 होहो ! चिन्मयचित्तचन्द्रमणयः संवर्द्धयध्वं रसान्
   रे रे स्वैरिणि निर्विचारकविते ! मा स्म प्रकाशीभवः ।
उल्लासीय विचारवीचिनिचयालङ्कारवारांनि धे-
श्चन्द्रालोकमयं स्वयं वितनुते पीयूषवर्षः कृती ॥ ( १. २)

पीयूषवर्ष इति नाम जयदेवस्यैवेति स्फुटीभवति प्रथममयूखान्तस्थपद्यात् । तथाहि-

 “महादेवः सत्रप्रमुखमखविचैकचतुरः
| सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
अनेनासावाद्यः सुकविजयदेवेन रचिते
चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥” ( १. १६ )

 चन्द्रालोकस्यान्तेऽपि च तदेव गदितमनेन । यथा---

 "पीयूषवर्ष प्रभवं चन्द्रालोकं मनोहरम् ।
सुधानिधानमासाद्य श्रयध्वं विबुधा मुदम् ॥
जयन्ति याज्ञिकश्रीमन्महादेवाङ्गजन्मनः ।।
सूक्तपीयूषवर्षस्य जयदेवकवेर्गिरः ॥” (१०. ५-६ )

चन्द्रालोकटीकाकारान्य तमेन गागाभट्टनाप्युक्तम्-‘पीयूषवर्ष इति जयदेवस्यैव नामान्तरम्' इति ।।

 एतस्मादिदमप्युपलब्धं यदस्य पिता महादेवनामा माता च सुमित्राभिधा


( १ ) Aufrect Catalogorus Catalogorum,