पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
पीयूषवर्षो जयदेवः

चक्षुष्मानपि लोकोऽयं यं विना नाऽवलोकयेत् । सोऽयं हृताशेषशोकश्चन्द्रालोकः प्रकाशताम् ।। यदालोकाल्लोकः सकलमपि लोकायतमयं ।

 दुरालोकं लोकं कलयति खलखेटकपटम् । सतां सद्यः पद्यां दिशतु सुदृशां हृद्यदथितो

 दयातोऽयं चन्द्रो हृतहृदयतन्द्रोऽद्य महितः । सखे पाण्डित्य ! त्वं किमसि कलिविद्वानिव तथा ।

 यथा मे नाद्याऽपि प्रकटयसि सर्वं स्वहृदयम् । प्रतीक्षाऽपेक्षातः स सुहृदनुरोधोऽद्य वलवान्  अतोऽयं लेखन्यां प्रणय इति मां मृष्यत बुधाः ।। पीयूषवर्षजयदेवमनु प्रवक्तुं यस्याग्रहादभवदत्र मम प्रवृत्तिः ।।

 सोऽनन्तराम कविरेष ममेति बुद्ध्या दोषैरपि श्रयतु तौषमशेषतो मे ॥ अनिवेदितमेवेदं विदितचर विशदशेमुषीजुषां विदुषां यदयं लोको न खलु विलोचनाभ्यां वस्तुतो विलोकयति वस्तुजातानि । विजयते किञ्चिच्चिन्मयं नामाभ्यन्तरं चक्षुर्येनैव चक्षुष्मत्तां चक्षुष्मत्ता परमार्थतः प्रसिद्धयति । विना तेन विलोचनवन्तोऽपि सम्य गर्थदशेने नितान्त तान्ता एव । तदिदं यद्यपि सर्वस्यैव परमकारुणिकेन परमपुरुषेण प्रसादीकृतमेवाऽऽस्ते, तथापि प्राक्तनपुण्यापुण्यसंस्कारानुगुणमेव न्यूनान्यूने विद्यो- तते जीवजातस्य प्रातिभं चक्षुः । यत् किञ्चिद् विवर्तते वाङ्मयविग्रहेण जगत्सु जागरितं तेजो भगवतो महाविष्णोस्तत्तस्यैव चितिविचितिचयस्य स्थूलतामुपगत बहिश्चर रूपम् । इदमेवोद्दिश्य पुरा प्रोक्तवानाचार्यदण्डी खकीये काव्यादर्शे-

 ‘इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् ।।
| यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ।।

 तदिदं वाङ्मयं द्विधा विवर्तते शास्त्ररूपेण काव्यरूपेण च । तदुक्तं काव्यमीमांसायां कविराजराजशेखरेण-“इदं हि वाङ्मयं द्विधा शास्त्रं काव्यं च । एतदनुरूपं च भवति विपश्चितं द्विविधा प्रकृतिः। केषां चिन्मनीषा निसर्गत एव शास्त्रे धावति, तदन्षांयेषां स्वभाव एवोद्भावयति काव्यभावनासद्भावम् । यद्यपि यथा कवयो व्युत्पत्तिनिमित्तं शास्त्रा- भ्यासमपि बहु मन्यन्ते तथैव केचन पण्डिता अपि कथंचन कवयन्तो दृग्गोचरीक्रियन्ते, तथाप्यत्र प्रकृतिमधिकृत्य प्रवृत्तिप्राधान्यमवधृत्य चे वस्तुस्थितियथायथं कथ्यते । परस्परपरोपकारपरम्परापरायणा अपि केचन मतिमन्तो हृदयतः पण्डिता एव भवन्ति तथैवाऽन्ये प्रतिभावन्तः कवय एव हृदा भवन्ति । एतमेव व्यतिकरमाश्रित्य प्रायः प्रवर्तते प्रायोवादो यद् विभिद्यते मूलत एव पन्था एतयोरुभयोः । वाचां प्रयोगश्चैतयोः प्रकृतिविजृम्भितां भिन्नामेव चमत्कृतिमादधाति , सहृदयधुरीणानां हृदये । कवयः।