पृष्ठम्:चन्द्रछायागणितम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दयावधिकाः प्राणाश्चरप्राणकलान्तरसंस्कृतरवेविशोध्या : । एवं त्रिभि: संस्कृत स रविः कालात्मक लग्नं, घटिकामण्डलगतं लग्नमिति यावत् । ततोऽपक्रमलग्न मानेयम् । कथम् ? तदर्थमेतत् काललग्नं पृथग्विन्यस्य प्राग्वद् भुजायाश्चरं प्राणकलान्तरं च गृहीत्वा तस्मिन्नेव काललग्ने व्यस्तं कुर्यात् । प्राणकलान्तरम् ओजे धनम् ऋणं युग्मे, चरदलम् मेषादौ धनं तुलादावृणं च कुर्यात् । एवमानीतं क्षेत्रलग्नं स्थूलम् । अतोऽस्याऽविशेषः कार्यः । तदुक्तम्--ततश्चाप्तं मुहुर्लग्नं च तद् दृढमिति । तदुभयसंस्कृतात् काललग्नाच्चरं प्राणकलान्तरं च गृहीत्वा केवल एव काललग्ने प्राणकलान्तरम् ओजे धनं युग्मे ऋणं च चरमपि गोलयोर्धनमृणं च कुर्याद् इति चकारेण द्योत्यते । एवं मुहुः पुनः पुनः कुर्याद् यावदविशेषः । दृढमविशिष्टं तत् प्रसिद्धं लग्नं च स्यात् ।। ७-८ ।। मूलम्– नीलकण्ठ-सोमयाजि-विरचितम् अन्त्यद्युज्याहताक्षाद् यत् त्रिज्याप्तं यश्च लम्बकः । काललग्नोत्थकोटिघ्नः करार्थाब्ध्युरगैर्हतः ।। ९ ।। दृक्क्षेपस्तद्रिदैक्यं च काले ककिंमृगादिगे' । विश्लेषे लम्बजाधिक्ये सौम्यो, याम्योऽन्यदा सदा" ।। १० ।। अथ श्लोकद्वयेन दृक्क्षेपानयनमुच्यते – [ अन्त्यद्युज्याहताक्षाद् ] इति । अन्त्यस्वाहोरात्रज्या परमापक्रमकोटिः । सा ‘कविकुलम्’ (३१४१) इति। तया अन्त्यद्युज्यया स्वदेशाक्षज्यां हत्वा त्रिज्या हृत्वाऽऽप्तं यत् तत् स्वदेशजमवधार्यम् । ततो लग्नार्थमानीतस्य काललग्नस्य कोटिज्यां गृहीत्वा तया स्वदेशलम्बज्यां हत्वा करार्थाब्ध्युरगैः प्रणवादि'(८४५२) संख्यैराप्तं च यत् काललग्ने मृगादिगे तद्द्वयं संयोज्यम् । कक्र्यादिगे तु वियोज्यम् । स दृक्क्षेपः । स च दक्षिण: । यदा पुनरक्षात् सिद्धं लम्बकानीताद् विशोध्यते तदैव सौम्यः वियोगेऽप्यक्षाल्लब्धस्याऽधिक्ये याम्य एव, अक्षस्य नित्यदक्षिणत्वात् ।। ९-१० ।। 8. 9. | दृक्क्षेपः ] 10. A. B. give an alt. reading के for गे B. (C. विश्लेष for विश्लेषे B. C. यदा ; B. gives also सदा as alt. reading