पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
गोपीगीता-


ध्येयमित्यन्तेन पूर्वार्द्धे पश्चार्द्धे शन्तममित्यन्तेन चरणविशेष- णेन नैवसाधारणरमणबोधः, किन्तु आत्मारामस्यैव बोधः। अ- स्मिन्पक्षे स्तनेष्विति नोपयुज्यते इति तु न वक्तव्यम् । स्तना इषवो बाणा यस्य हृदस्तदिति बहुव्रीहिः, अधिकरणत्वस्थापि कर्मत्वविवक्षायां द्वितीया| हृद उत्पन्नाः कुचास्तस्यैव भेदका इषवः| कुचैरेव करणैस्तत्रानेके आधयः अस्माकमतीव, मनोहरकुचान् पश्यन् भवानात्मारामोऽपि मोहितः सन्ननुययौ अतः कुचोत्पादकं हृदेच तत्प्रत्येव पादकमलमर्पय । तत्पादस्म- रणे मानसव्यथाः सर्वा नश्येयुः,अतो भवानाधिहन्निति पदेन सम्बोध्यो भवेदिति गूढाशयः ॥ २४ ॥ यद्वा ते रमणेत्यत्र ते अरमइतिच्छेदः। अरम इत्येकम्, रोत्येक्रम्पदम्। न विद्यते रमा यस्य सोऽरमस्तत्सम्बोधनम्। इदानीं लक्ष्मीशू न्यस्त्वमित्यर्थः ॥ २५ ॥ यद्वा ओवासुदेवः परमात्मा तस्मिन्ने वरमतेऽरमः। आत्माराम इत्यर्थः ॥२६॥ यद्वा अस्माभिर्गोपीभिः प्रकृतिभोः सह रमते इति रमः, पचाद्यच्। अस्मिन्पक्षेऽशब्दो नास्ति। ऐति शब्दोधनार्थस्तु। हे सूकर! रे वराह! ||२७|| यद्वा हे ज्ञानरूप!, चित्स्वरूपादिति भावः। 'णकारः सूकरे ज्ञानेनि श्वये निर्णयेऽपिचे' -ति कोशः॥२८॥ यद्वा ध्येयमापदीत्यत्र ध्येय- मेति सम्बोधनम् आपदीति पृथक्। ध्येयाध्यानविषयीकृता मा सम्पद्येन 'आपदर्थे धनं रक्षे'-दिति स्मरणात् सम्पदं रक्षति भवानि. त्यर्थः ||२९|| यद्वा आपदि मां स्मरतीत्यर्थः। 'आपत्तिकालेगृहि-