पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
गोपीगीता-

यद्वा प्रणतेत्येकंसम्बोधनम्, कामदमिति पृथक् । कम्ब्रह्माणमा- समन्तान्मदयति ग्लेपयति, सजातीयवसादिनिर्माणेन पश्चात्तु कृपया हर्षयतीति तथा॥१२॥ यद्वा प्रणतश्चासौकोवेधास्तमास- मन्तान्मदयति हर्षयति स्वकृपयेति तथा ॥ १३॥ यद्वाप्रणतश्चा सौकामः कन्दर्पस्तं द्यति खण्डयतीति तथा। अतः कन्दर्पद- र्पहेत्युच्यते। पश्चानुरासक्रीडया हर्षयतीत्यर्थः ॥ १४॥ यद्वा प्रगतं नतं नमस्कारो यस्य स चासौ काम स्तब्धस्तं द्यति ॥१०॥ यद्वा प्रकर्षण नतः प्रणतः सचासौ कश्च प्रणतकः स च आमा च सूत्रामा इन्द्रस्तयोर्द्वन्द्वः प्रणतकामौ ताभ्यां वरं ददातीति तथा। नामैकदेशन्यायेनामपदेनसूत्राम्णो ग्रहणसम्भवात्। अत्रापि पूर्वदा धातुरस्तु पश्चाद्दाञस्तु। दाण् वा प्राक्तौ दण्डयित्वऽनुवरं ददावित्यर्थस्य स्पष्टत्वात्। दण्डपक्षे प्रगतं नतं यस्येति समासः। पक्षद्वयेपिद्वन्द्वादौश्रूयमाण- स्य प्रणतस्य सम्बन्धस्तथाच कपदस्यामपदस्य च पूर्वद्वन्द्वः, पश्चात्प्रणतौ च कामानाविति कर्मधारयः ॥ १६ ॥ यद्वा प्रकर्षेण नतं प्रणतं तत्कं शिरो यस्य सः प्रणतको भक्तस्सचा-


 * ननु प्रणमन्तं कामं कुतश्चरवण्ड एवं सत्येतद्विशेषणमैवानर्थकंस्या- दितिचेत्प्रणमत्यपिकामे विश्वासस्यानईत्वात्। अत: काम एप इत्यादिनाङ्गु- लिनिर्देशन तस्यैव विशेषतो निन्दाश्रूयते। शत्रुवर्गे तस्यैव प्राधान्यात्। अतो'जहि शत्रु-मित्यादिना तज्जये नियोगः। सकुन्नष्टोऽपि भूयोऽभिवर्धते। अतः 'हविषा कृष्णवर्मवेति श्रूयते। २अकर्मकत्वाद्भावे क्तः।