पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
गोपीगीतार्थकौमुदीसहिता-

सिंहावलोकन्यायात्॥१२॥यद्वा विनागरुडेन भाविपारिजातादिह- रणार्थगच्छति,इन्द्रादीन्कम्पयति वासत्यभामाप्रीतये इति वीरः ॥१३॥यद्वा विशब्दो विनार्थकः। अस्मद्विना विपिनमीर्त्त-इतिवीरः ॥१४॥यद्वा स्मरतीति स्मरस्तं कृष्णम्। पचाद्यजन्तः, स्मृः नइति कर्मणि षष्ठी। तथा चास्माकं स्मरमस्मद्विषयकस्मृतिमन्तं कृष्णं तादृशं सुन्दरमस्माकमाननन्दर्शयन् कृष्णसखस्त्वं कृष्णमनसि स्मरं कामं यच्छसि। हे वीरेति कृष्णस्वसम्प्रति गोपीवचः। दृशे- श्चेति कृष्णस्य कर्मत्वम् ॥ १५ ॥ यद्वा रमिति पृथक, यच्छसि स्मेति भूते लट्, र कामाग्निम्। तदानीमसन्तमपि कृष्णसखं गोप्यो ब्रुवते। कामातुराणामयं स्वभावः। वीरनामा कश्चित्- कृष्णसखस्तं स्मरन्त्यस्तं वीरपदेन सम्बोधयामासुः ॥ १६ ॥ नन्वस्माकमिति वहुवचनवलादाननानि मनःस्वित्येवबहुवचना न्तंभवितुमर्हतीति नशङ्कयम्। जातिविवक्षया तदुपपत्तेः॥१७॥यद्वा एकस्या एव गोप्या इदम्वचोऽस्तु तथा चैकवचनं सुष्टु। अस्मा कमिति बहुत्वन्तु 'अस्मदो द्वयोश्चे-ति साधु, अस्मा- कम्वनरूहाननमित्यन्वयेऽस्मद अानने नैव सम्वन्धा कथं व्यपेक्षा समास इतिचेद्गमकत्वान्नित्यसाकाङ्क्षत्वाद्वाभविष्यति,पतत्पक्षे- बिभ्रदित्यप्याननस्यैव विशेषणमस्तु, पोषकमिति तदर्थः। अस्मदाननं सर्वमनः पोषकमिति पर्यवस्यति ॥ १८ ॥ यद्वा बिभ्रदिति वीरविशेषणमस्तु कृष्णं बिभ्रद्धारयन्पोषयन्वेति तदर्थः यद्यस्मिन्पक्षे एकदेशान्वयोऽसहस्तर्हि वनरुहेतिवीरस्यैव सम्बो- धनम्पृथक् पदमस्तु,तथा च केवलाननेनसहास्मत्सम्बन्धे नास्ति