दर्शनीया विवृतिरिति बद्धाञ्जलिर्नतशिरा उमानाथशर्मा श्री-
विदुषो मुहुर्मुहुः प्रार्थये। 'दोषाविद्यमानेऽपि शङ्कितुः शङ्कते
मनः, यथा रज्जो सर्पबुद्धिर्जायतेऽतत्त्ववेदिनः'। तद्दुक्तम् ।
अर्थह्यविद्यमानेऽपि संसृतिर्न निवर्तते, ध्यायतो विषयानस्य
स्वप्नेऽनर्थागमो यथा, गच्छतस्खलनं क्वापि भवत्येव प्र.
मादतः, हसन्ति दुर्जनास्तत्र समादधति सज्जनाः। इति
न्यायमाकलयन्तो मयि कृपामादधाना इमेऽर्थाः सब्जाघटति
वा न वेति विद्वांसएवाकलयन्तु। श्रीधरस्वामिप्रभृतिपूज्यादै-
श्चर्चित्वाऽऽस्वाद्य सारभूतार्थाः प्रदर्शिताः मया तु विघसवन्म-
न्यमानेन तदुच्छिष्टार्थं सङ्कलयता रासक्रीडोन्मुखश्रीनन्दनन्दन
कृपाकटाक्षलेशपाततः सङ्ग्रहीताः। स्वकौतूहलायैव न तु पर
प्रतिपत्यै, यतः श्रीकृष्णचरित्रस्मरणेनैव दुःखत्रितयं निहन्तुकामो
न तु विद्वत्तादर्शनेन धनकीर्तिप्राप्तुमनाः नापि परोपकृतितत्पर-
चेताः; यतो न क्लिष्टार्थप्रतिपत्तये जनः प्रवर्तते अक्के चेत्'इति
न्यायात् चूर्णिकादिसरलविवृतेरेव लोककार्यस्य निर्वाह्यत्वात्।
तस्मात् केवलस्वदुःखनिवृत्तय इति सूरतैरहं विचारणीय इति
प्रव्यक्तमेवाचक्षे। हल्लीसकक्रीडनतत्परस्य श्रियःपतेःपादमहं
स्मरन्मे। कर्ह्येमि पारं भवदुःखसिन्धोस्तर्ह्येव लीना + असवो
भवेयुः ॥ १ ॥ विष्णो न दाषाय पराङ्गनायां क्रीडा त्वमे-
कादशहायनोऽसि। नानेककामाचरणस्यभङ्गः प्रभो भवान्नो
उपनीत एव। रासक्रीडनं नाम हल्लीसकक्रीडनम्। एकस्यपुंसो बहुभिः स्त्रीभिः क्रोडनं सैव रासक्रीडा। 'गोपीनांमण्डले
तत्यप्रागा उत्क्रामन्ति अत्रैव समवलीयन्ते ॥ इति ते :