गायत्रीमन्त्रार्थविवृतिः । ३१ त्तचक्षुः सोन्तरात्मिक्या गत्या बहिरात्मनोनुमीयते गतिरित्येवं ह्याह । स्पष्टोऽर्थः ॥ अथ य एषोन्तरादित्ये हिरण्मयः पुरुषो यः पश्यती- मां हिरण्यवस्थानात्स एषोऽन्तरे हृत्पुष्कर एवाश्रितोन्नमत्तीति । हिरण्मयो ज्योतिर्मयः इमां त्रैलोकीम् हिरण्यवस्थादिति हिरण्ये हि- रणमये तेजःसङ्घात्मके मण्डले अवस्थानात्तदभेदेनावस्थानादित्यर्थः । वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोरित्यवोपसर्गेऽवर्णलोपः शेषः स्पष्टार्थः। स एष प्राणादित्यो हृदयाकाशस्थः शतं चैका हृदयस्य नाय इत्या- दिमुण्डूकश्रुत्या नाडीभिः सर्व शरीरमभिव्याप्य चेष्टयते जीवन्तं करोति द्विदलादीनि सहस्रदलपर्यन्तानि कुलपथस्थितानि कमलानि विकासयति चेति सर्वथा प्राणस्यादित्यवं श्रुतिभिः सिद्धम् । युक्त्या च साध्यते । सा च यथा महाकाशे हि द्वादशराशयः तासामेव त्रिंशता गुणनं विधाय षष्ट्यधिकं शतत्रयं अंशरूपेण सञ्जायते ते
पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/३३
दिखावट