पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

44 गणितसारसङ्ग्रहः

प्रिय विशोध्य चतुर्गुणषट्तः
कथय शेषधनप्रमित द्रुतम् ॥ १२८ ॥

भागभागापवाह उद्देशकः ।

द्विगुणितपञ्चमनवमत्र्यंशाष्टांशाद्विसप्तमान् क्रमशः ।
चषडंशपादचरणयंशाष्टमवर्जितान् समस्य वद ॥ १२९ ॥

षट्सप्तांशस्वषष्ठाष्टमनवमदशशवयुक्तः पणस्य
स्यात्पञ्चद्वादशांशस्वकचरणतृतीयांशपधांशकनः ।
खद्वियंशाद्विपञ्चांशकदलवियुतः पञ्चषड्भागराशि-
ट्टीिच्यंशोऽन्यस्वपोष्टमपरिरहितस्तत्समासे फलं किम् ॥ १३० ॥

अर्द्ध व्यष्टमभागपादनवमैयौर्विहीनं पुनः
स्वैरष्टांशकसप्तमांशचरणैरूनं तृतीयांशकम् ।
अध्यधत्परिशोध्य सप्तममपि चाष्टांशषष्ठोनितं
शेषं ब्रूहि परिश्रमोऽस्ति यदि ते भागापवाहे सखे ॥ १३१ ॥ .

अत्राग्राव्यक्तभागानयनसूत्रम्

लब्धात्काल्पित भाग रूपानंतापवाहफलभक्ताः ।
क्रमशः खण्डसमानास्तेऽज्ञातांशप्रमाणानि ॥ । १३२ ॥

अत्रोद्देशकः ।

कश्चित्स्वकैश्चरणपञ्चमभागषत्रैः
कोऽप्यंशको दलषडंशकपञ्चमः ।
हीनोऽपरो द्विगुणपथमपादषष्ठेः
तत्संयुतिर्दलमिहाविदितांशकाः के ॥ १३३ ॥