पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकर्मव्यवहारः 13

द्विस्थानप्रभृतीनां राशीनां सर्ववर्गसंयोगः ।
तेषां क्रमघातेन द्विगुणेन विमिश्रितो वर्गः ॥ ३० ॥
कृत्वान्त्यांत हन्याच्छषपदद्विगुणमन्त्यमुत्सायै ।

  • शेषानुत्सयैवं करणीयो विधिरयं वर्गे ॥ ३१ ॥


अत्रोद्देशकः ।

एकादिनवान्तानां पञ्चदशानां द्विसङ्गणाष्टानाम् ।
व्रतयुगयोश्च रसाग्न्योश्शरनगयोर्वर्गमाचक्ष्व ॥ ३२ ॥
साष्टात्रिंशत्रिशती चतुस्सहमैकषष्टिषट्छतिका ।
द्विशती षट्पञ्चशान्मिश्रा वर्गीकृता किं स्यात् ॥ ३३ ॥
लेख्यागुणेषुबाणद्रव्याणां शरगातित्रिसूर्याणाम् ।
गुणरत्नाग्निपुराणां वर्णं भण गणक यदि वेसि ॥ १४ ॥
सप्ताशीतित्रिशतसहितं षट्सहवं पुनश्च
पञ्चत्रिंशच्छतसमधिकं सप्तनिघ्नं सहस्रम् ।
द्वाविंशत्या युतदशशतं वर्गितं तत्रयाणां
ब्रूहि त्वं मे गणक गुणवन्सङ्गणय्य प्रमाणम् ॥ ३९ ॥
इति परिकर्मविधौ तृतीयो वर्गस्समाप्तः ।।

वर्गमूलम् ।

चतुर्थे वर्गमूलपरिकर्मणि करणसूत्रं यथा
अन्त्यौजदपह्नरुतिमूलेन द्विगुणितेन युग्महतौ ।
लब्धकृतिस्त्याज्यौजे द्विगुणदलं वर्गमूलफलम् ।। ३६ ॥

P, K and B राशिरेतकृतीनाम्