पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

146 गणितसारसङ्ग्रहः

समचतुरश्राष्टादशहस्तभुजा वापिका चतुर्वेधा ।
वापी तज्जलपूर्णान्या नववाहात्र को वेधः ॥ २५(१/२) ॥

यस्य कस्यचित्खातस्य ऊध्वीस्थितभुजासङ्ख्यां च अधस्स्थित
भुजासख्यां च उत्सेधप्रमाणं च ज्ञात्वा, तत्खाते इष्टोत्सेधसङ्ख्यायाः
भुजासङ्ख्यानयनस्य, अधस्सूचिवेधस्य च सङ्ख्यानयनस्य सूत्रम्-–

मुखगुणवेधो मुरवतलशोषहृतोऽत्रेव सूचिवेधः स्यात् ।
विपरीतवेधगुणमुरवतलयुत्यवलम्बहूव्यासः ॥ २६(१/२) ।।

अत्रोद्देशकः ।

समचतुरश्रा वापी विंशतिरूढे चतुर्दशाधश्च ।
वेधो मुखे नवाधस्त्रयो भुजाः केऽत्र सूचिवेधः कः ॥ २७(१/२) ॥

गोलकाकारक्षेत्रस्य फलानयनसूत्रम्--

व्यासार्धघनार्धगुणा नव गोलव्यावहारिक गणितम् ।
तद्दशमांशं नवगुणमशेषसूक्ष्मं फलं भवति ॥ २८(१/२) ॥

अत्रोद्देशकः ।

षोडशविष्कम्भस्य च गोलकवृत्तस्य विगणय्य ।
कि व्यावहारिकफलं सूक्ष्मफलं चापि मे कथय ॥ २९(१/२) ॥

शृङ्गाटकक्षेत्रस्य स्वातव्यावहारिकफलस्य रवातसूक्ष्मफलस्य च सूत्रम्--

भुजकुतिदलघनगुणदशपदनवहव्यवहारिकं गणितम् ।
त्रिगुणं दशपदभक्तं शृङ्गठकसूमघनगणितम् ॥ ३०(१/२) ॥

अत्रोद्देशकः ।

त्र्यश्रस्य च शृंङ्गाटकषड्बाहुघनस्य गणयित्वा ।
किं व्यावहारिकफलं गणितं सूक्ष्मं भवेत्कथय ॥ ३१(१/२) ॥