पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


सप्तमः

खातव्यवहारः

सर्वामरेन्द्रमकुटार्चितपादपीठं
सर्वज्ञमव्ययमचिन्त्यमनन्तरूपम् ।
भव्यप्रजासरसिजाकरबालभानुं
भक्त्या नमामि शिरसा जिनवर्धमानम् ॥ १ ॥

क्षेत्राणि यानि विविधानि पुरोदितानि
तेषां फलानि गुणतान्यवगाहनानि (नेन) ।
कमन्तिकण्डूफलसूक्ष्मवकाल्पितान
वक्ष्यामि सप्तममिदं व्यवहारवातम् ॥ २ ॥

सूक्ष्मगणितम्

अत्र परिभाषाञ्चकः

हस्तघने पांसूनां द्वात्रिंशत्पलशतानि पूर्याणि ।
उत्कीर्यन्ते तस्मात् षत्रिंशत्पलशतानीह ॥ ३ ॥

खातगणितफलनयनसूत्रम्--

क्षेत्रफलं वेधगुणं समरवाते व्यावहारिकं गणितम् ।
मुरवतलयुतिदलमथ सत्सङ्ख्यातं स्यात्समीकरणम् ॥ ४ ॥

अत्रोद्दश्कः

समचतुरश्रस्याष्टौ बाहुः प्रतिबाहुकश्च वेधश्च ।
क्षेत्रस्य वातगणितं समरवाते किं भवेदत्र ॥ ५ ॥

त्रिभुजस्य क्षेत्रस्य द्वात्रिंशद्वाहुकस्य वेधे तु ।
षत्रिंशदृष्टास्ते षडलान्यस्य कि गणितम् ॥ ६ ॥

साष्टशतव्यासस्य क्षेत्रस्य हि पञ्चषष्टिसहितशतम् ।
वेधो वृत्तस्य त्वं समरवाते किं फलं कथय ॥ ७ ॥

आयतचतुरश्रस्य व्यासः पञ्चभर्विंशतिर्बाहुः।
षष्टिर्मेधोऽष्टशतं कथयाशु समस्य खातस्य ॥ ८ ॥

I4