पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

140 गणितसारसङ्ग्रहः

बाहू पञ्चत्र्युत्तरदशकौ भूमिश्चतुर्दशो विषमे ।
त्रिभुजक्षेत्रे बाहिरवृत्तव्यासं ममाचक्ष्व ॥ २१९(१/२) ॥

डेिकबाहुषडश्रस्य क्षेत्रस्य भवेद्विचिन्त्य कथय त्वम् ।
बाहिरविष्कम्भं मे पैशाचिकमत्र यदि वेसि ।। २२०(१/२) ॥

इष्टसङख्याव्यासवत्समवृत्तक्षेत्रमध्ये समचतुरश्राद्यष्टक्षेत्राणां नुरव
भभुजसङख्यानयनसूत्रम्--

लब्धव्यासनेष्टव्यासां वृत्तस्य तस्य भक्तश्च ।
लब्धेन भुजा गुणयेद्भवेच्च जातस्य भुजसङ्ख्या ॥ २२१(१/२) ॥

अत्रोद्देशकः ।

वृत्तक्षेत्रव्यासस्त्रयोदशाभ्यन्तरेऽत्र सचिन्त्य ।
समचतुरश्राद्यष्टक्षेत्राणि सरवे ममाचक्ष्व ॥ २२२(१/२) ॥

आयतचतुरथं विना पूर्वकल्पितचतुरश्रादिक्षेत्राणां सूक्ष्मगणितं च
रज्जुसख्यां च ज्ञात्वा तत्तक्षेत्राभ्यन्तरावस्थितवृत्तक्षेत्रविष्कम्भानयन

परिधेः पादेन भजेदनायतक्षेत्रसूक्ष्मगाणितं तत् ।
क्षेत्राभ्यन्तरवृत्ते विष्कम्भोऽयं विनिर्दिष्टः ॥ २२३(१/२) ॥

अत्रोद्देशकः ।

समचतुरश्रादीनां क्षेत्राणां पूर्वकल्पितानां च ।
छत्वाभ्यन्तरवृत्तं गृह्यधुना गणिततत्त्वज्ञ ॥ २२४(१/२) ॥

समवृत्तव्याससङ्ख्यायामिष्टसङ्ख्यां बाणं परिकल्प्य तद्वाणपरि
माणस्य ज्यासयानयनसूत्रम--