पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

116 गणितसारसङ्ग्रहः

अत्रोद्देशकः ।

पञ्चदशबाहुकस्य क्षेत्रस्याभ्यन्तरं बहिर्गणितम् ।
चतुरश्रस्य च वृत्तव्यवहारफलं ममाचक्ष्व ॥ ४८ ।।

इति व्यावहारिकगणितं समाप्तम् ।

अथ सूक्ष्मगणितम्

इतः परं क्षेत्रगणिते सूक्ष्मगणितव्यवहारमुदाहरिष्यामः । तद्यथा –

आबाधावलम्वकानयनसूत्रम्--

भुजकृत्यन्तरहृतभूसङ्कूमणं त्रिबाहुकाबाधे ।
तद्भभुजवर्गान्तरपदमवलम्वकमाहुराचार्याः ॥ ४९ ॥

सूक्ष्मगणितानयनसूत्रम्--

भुजयुत्यर्धचतुष्काद्भुजहीनाद्धातितात्पदं सूक्ष्मम् ।
अथवा मुरवतलयुतिदलमवलम्वगुणं न विषमचतुरश्रे ॥ ५० ॥

अत्रोद्देशकः ।

त्रिभुजक्षेत्रस्याष्टौ दण्डा भूर्वाहकौ समस्य त्वम् ।
सूक्ष्मं वद गणितं मे गणितविदवलम्बकाबाधे ॥ ५१ ॥

द्विसमत्रिभुजक्षेत्रे त्रयोदश स्युभुजद्वये दण्डाः ।
दश भूरयाबाधे अथावलम्बं च सूक्ष्मफलम् ॥ ५२ ॥

विषमत्रिभुजस्य भुजा त्रयोदश प्रतिभुजा तु पञ्चदश ।
भूमिश्चतुर्दशास्य हि किं गणितं चावलम्बकाबाधे ॥ ५३ ॥


After this M adds the following :- त्रिभुजक्षेत्रस्य भुजद्वयसंयोगस्थानमारभ्य
अधस्स्थितभूमिसंस्पृष्टरेखाय नाम अवलम्बकः स्यात् ।