पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 85

यत्रार्धस्तत्र सर्वे षट्पञ्चशत्पणैः खगान् क्रीत्वा ।
द्वासप्ततिमानयतामित्युक्त्वा मूलमेवादात् ।
कतिभिः परैस्तु विहगाः कति विगणय्याशु जानीयाः ॥ १४९ ॥

त्रिभिः परैः शुण्ठिपलानि पञ्च चतुर्भिरेकादश पिप्पलानाम् ।
अष्टाभिरेकं मरिचस्य मूल्यं षष्ठनयाष्टोत्तरषष्टिमशु ॥ १५० ॥

इष्टाघरष्टमूल्यॉरष्टवस्तुप्रमाणानयनसूत्रम्--

मूल्यन्नफलेच्छागुणपणान्तरेष्टनयुतिविपर्यासः ।
द्विष्टः स्वधनेष्टगुणः प्रक्षेपककरणमवशिष्टम् ॥ १५१ ॥

अत्रोद्देशकः ।

त्रिभिः पारावताः पञ्च पञ्चभिस्सप्त सारसाः ।
सप्तभिर्नव हंसाश्च नवभिश्शिाविनत्रयः ॥ १५२ ॥

क्रीडार्थं नृपपुत्रस्य शतेन शतमानय ।
इत्युक्तः प्रहितः कश्चित् तेन किं कस्य दीयते ॥ १५३ ॥

व्यस्तार्धपण्यप्रमाणानयनसूत्रम्'

पण्यैक्येन पणैक्यमन्तरमतः पण्येष्टपण्यन्तरे-
श्छिन्द्यात्सङ्क्रमणे कृते तदुभयोरघं भवेतां पुनः ।
पण्ये ते रवलु पण्ययोगविवरे व्यस्तं तयोरर्थयोः
प्रश्नानां विदुषां प्रसादनामिदं सूत्रं जिनेन्द्रोदितम् ॥ १५४ ॥

अत्रोद्देशकः ।

आद्यमूल्यं यदेकस्यं चन्दनस्यागरोस्तथा।
पलानि विंशतिर्मिश्रं चतुरग्रशतं पणाः ॥ १५५ ॥


1 Not found in any of the Mss. Consuired.