पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

78 गणितसारसङ्ग्रहः

प्रथमादध्यर्धगुणात् त्रिगुणाढ्पोत्तराद्विभज्यन्ते ।
साष्टा सप्ततिरोभिश्चतुर्भिराप्तांशकान् ब्रूहि ॥ ९९(१/२) ॥

प्रथमादध्यर्धगुणाः पर्धगुणोत्तराणि रूपाणि ।
पञ्चानां पञ्चशत्सैका चरणत्रयाभ्यधिका ॥ १००(१/२) ॥

प्रथमात्पद्यर्धगुणाश्चतुर्गुणोत्तराविहीनभागेन ।
भक्तं नरैश्चतुर्भिः पञ्चदशोनं शतचतुष्कम् ॥ १०१(१/२) ॥

समधनाघोनयनतज्ज्येष्ठधनसङ्ख्यानयनसूत्रम्--

ज्येष्ठधनं सैकं स्यात् खविक्रयेऽन्त्यार्धगुणमपैकं तत् ।
क्रयणे ज्येष्ठानयनं समानयेत् करणविपरीतात् ॥ १०२(१/२) ॥

अत्रोद्देशकः ।

द्वावष्ट षट्त्रिंशन्मूलं नृणां षडेव चरमार्षः।
एकार्षेण क्रीत्वा विक्रीय च समधना जाताः ॥ १०३(१/२) ॥

सर्वेकमर्धमर्धद्वयं च सङ्गृह्य ते त्रयः पुरुषाः ।
क्रयविक्रयौ च कृत्वा षड़िः पश्चार्षीत्समधना जाताः ॥ १०४(१/२) ॥

चत्वारिंशत् सैका समधनसङ्ख्या षडेव चरमार्थः।
आचक्ष्व गणक शीघ्र ज्येष्ठधनं किं च कानि मूलानि ॥ १०५(१/२) ॥

समधनसङ्ख्या पञ्चत्रिंशद्भवन्ति यत्र दीनाराः ।
चत्वारश्चरमाधं ज्येष्ठधनं किं च गणक कथय त्वम् ॥ १०६(१/२) ॥

चरमार्षभिन्नजातौ समधनार्घनयनसूत्रम्--

तुझ्यापच्छेदधनान्यार्थाभ्यां विक्रयक्रयाघ्र प्राग्वत् ।
छेदच्छेदछतिनावनुपातात् समधनानि भिन्नेऽन्त्यार्षे ॥ १०७(१/२)॥