पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
123
गणिकाऽध्यक्ष


 परिसूनमशिर पादास्थि विगन्धं स्वयंभूतं चन' विक्रीणी- 1529 रन् । अन्यथा द्वादशपणो दण्ड ।

दुष्टाः पशुमृगव्याला मत्स्याश्चाभयचारिण ।
अन्यत्र गुप्तिस्थानेभ्यो वधबन्धमवाप्नयुः ।।

इत्यध्यक्षप्रचारे सूनाध्यक्षः षड्विंशोsध्याय:,

आदितस्सप्तचत्वारिंशः.


४४ प्रक. गणिकाऽध्यक्षः,


 गणिकाध्यक्ष गणिकान्वयायगणिकान्वयां वा रूपयौवन ॥ 158 1 शिल्पसम्पन्नां सहस्रेण गणिकां कारयेत् ।

कुडुम्बार्धेन प्रतिगणिकाम् ।
निष्पतिता प्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत ।
तन्माता वा प्रतिगणिकां स्थापयेत् ।
तासामभावे राजा हरेत् ।

 सौभाग्यालङ्कारवृद्धया सहस्रेण वारं' कनिष्ठं मध्यमुत्तमं वाऽऽरोपयेत् । छत्रभृङ्गारव्यजनशिबिकापीठिकारथेषु च वि. शेषार्थम् ।

सौभाग्यभङ्गे मातृकां कुर्यात् ।
निष्क्रयश्चतुर्विंशतिसाहस्रो गणिकाया ।


1 नास्तितिका, भोत तदीयतन्त्र रिक्च वा अधिति- छेत् . इति व्याख्या. माता. नियोग.