पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

90 अध्यक्षप्रचार- २ अधि, १४ अध्या यथावर्णप्रमाणं निक्षेपं गृह्णीयुस्तथाविधमेवार्पयेयुः। कालान्त- रादपि च तथाविधमेव प्रतिगृह्णीयुरन्यत्र क्षीणपरिशीर्णाभ्याम् । आवेशनिभिस्सुवर्णपुद्गललक्षणप्रयोगेषु तत्तज्जानीयात् । तप्तकलदौतकयोः काकणिकस्सुवर्णे क्षयो देयः' । तीक्ष्ण- काकणीरूप्याद्विगुणो रागप्रक्षेपस्तस्य षड्भागः क्षय' । वर्णहीने माषा'वरे पूर्वस्साहसदण्डः । प्रमाणहीने मध्यमः तुलापतिमानोपधावृत्तमः कृतभाण्डोपधौ च ।। 1075 सौवणिकेनादृष्टमन्यत्र वा प्रयोगं कारयतो द्वादशपणो दण्डः। कर्तुर्द्विगुणः; सापसारश्चेत् । 'अनपसारः कण्टकशोधनाय नीयेत । कर्तुश्च द्विशतो दण्डः पणच्छेदन वा। तुलाप्रतिमानभाण्डं पौतवहस्ताक्रीणीयुः। अन्यथा द्वादश- पणो दण्डः । घनं धनसुषिरं संयूह्यमवलेप्यं सद्धात्यं वासितकं च कारुकर्मा तुलाविषममपसारणं विस्त्रावणं पेटको पिङ्कश्चेति हरणोपायाः। सन्नामिन्युत्कीर्णिका भिन्नमस्तकोपकण्ठी कुशिक्या सकटुक क्ष्या पारि वेल्ययस्कान्ता च दुष्टतुलाः। 1 माणनि सुवर्ण कि जल्कवर्णादि, युद्गल आभरणादि, लक्षण चिद्रितम् प्रयोग: परिवर्तनामिति' इति ब्याख्या. 'देह , माषवछेद " उत्कीर्णिका. उत्कणिका इति व्याख्यायाम् । परि. : ल्याय.