सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
प्रतिवस्तूपमालंकारः १७ ] अलंकारचन्द्रिकासहितः।


स्थिरा शैली गुणवतां खलबुघ्घा न बाध्यते । रन्तदीपस्य हि शिखा वात्ययापि न नाश्यते ॥ यथावा-

तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति ।
स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरसं समीक्षते ॥

 

 अत्र यद्यपि उपमेयवाक्ये अनिच्छा उपमानवाक्ये अवीक्षेति धर्मभेदःप्रतिभाति तथापि वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानहत्वादिच्छापूर्वकवीक्षाप्रतिषेधोऽयमनिच्छापर्यवसित एवेति धर्मैक्यमनुसंधेयम् । अर्थावृत्तिदीपकं प्रस्तुतानामप्रस्तुतानां वा, प्रतिवस्तूपमा तु प्रस्तुताप्रस्तुतानामिति विशेषः । आवृत्तिदीपकं वैधम्य न संभवति, प्रतिवस्तूपमा तु वैधर्यॆण दृश्यते । यथा---


स्थिरेति ॥ शैली सद्वृत्तम् । रत्नमेव दीपो रत्नदीपः। अत्र पूर्वार्धमुपमेयवाक्यमुत्तरार्धमुपमानवाक्यम् । उभयत्र व नाशाभावरूपः समानधर्मः शब्दभेदेनोपात्त्तः । सामान्याभावमात्रबोधकस्यापि बाधतेरत्र नाशरूपविशेषपरत्वात् । अयमेव च पूर्वोदाहरणाद्भेदः॥ तवेति ॥ ईश्वरंप्रति भक्तस्योक्तिः । अमृतप्रसवणशीले तव पादपङ्कजे निवेशित आत्माऽन्तःकरणं येन तादृशो भक्तोऽन्यदमृतातिरिक्त फलं कथमिच्छति । न कथमपीत्यर्थः । अमृतं चात्र ब्रह्मानन्दरूपं हि निश्चितम् । मधुव्रतो भ्रमरो मकरन्देन रसेन निर्भरे व्याप्तेऽरविन्दे स्थिते सति इक्षुरसं न समीक्षत इत्युपमानवाक्यम् ॥ अवर्जनीयस्येति ॥ अनिष्टेऽपि खसामग्रीवशाजायमानस्येत्यर्थः ॥ इच्छापूर्वकेति ॥ तथाच समीक्षतेरिच्छापूर्वकवीक्षणे लक्षणेति भावः ॥ अनिच्छापर्यवसित इति ॥ सविशेषणे हीति न्यायादिति भावः। उन्मीलन्ति कदम्बानीति पूर्वोदाहृतायामर्थावृत्तावतिव्याप्तिमाशयाह--अर्थावृत्तिरित्यादि ॥ शब्दावृत्तौ तु धर्मस्यैकेनैव शब्देनावृत्त्या बोधनान्न भिन्नशब्दबोध्यत्वमिति नातिव्याप्तिरतोऽर्थावृत्तिपर्यन्तानुधावनम् । एवंच भिन्नशब्दबोध्यैकधर्मगम्यं प्रस्तुताप्रस्तुतवाक्यार्थसादृश्यं प्रतिवस्तूपमेति लक्षणं बोध्यम् । दृष्टान्तालंकारेऽव्याप्तिवारणाय भिन्नशब्दबोध्येति । तत्र तु बिम्बप्रतिबिम्बभावापन्नधर्मगम्यं सादृश्यमिति नातिव्याप्तिः। 'दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि इत्यादिवाक्यार्थोपमायामतिव्याप्तिवारणाय गम्यमिति । अर्थावृत्तिवारणाय प्रस्तुताप्रस्तुतेति । 'आननं मृगशावाक्ष्या दीक्ष्य लोलालकावृतम् । भ्रमझमरसंकीर्ण स्मरामि सरसीरुम् ॥' इति स्मरणालंकारेऽतिव्याप्तिवारणाय वाक्यार्थेति । अत्र हि दिवि भातीति वाक्यार्थोपमायां गमनाधिकरणशोभाश्रयभानुसहशो भूम्यधिकरणकशोभाश्रयस्त्वमिति प्रतीतिवन्न मर्यमाणतादृशसरोरुहसदृशं तथाविधमाननमिति प्रतीतिर्येन वाक्यार्थगतोपमा गम्या स्यात् , किंतु स्मरणासंपृक्ता तादृशसरोरुहसदृशं ताहशमानन मिति पदार्थगतोपमैवेति तद्वारणमिति दिकू । प्रस्तुताप्रस्तुतयोश्चमत्कृतिविशेषाप्रयोजकतया वाऽलंकारमेदप्रयोजकत्वमित्यखरसादाह-अयंचेति