पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिवस्तूपमालंकारः १७ ] अलंकारचन्द्रिकासहितः। ५३ स्थिरा शैली गुणवतां खलबुद्ध्या न बाध्यते । रखदीपस्य हि शिखा वात्ययापि न नाश्यते ॥ यथावा- तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति । स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरसं समीक्षते ॥ अन्न यद्यपि उपमेयवाक्ये अनिच्छा उपमानवाक्ये अवीक्षेति धर्मभेदःप्रति- भाति तथापि वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानहत्वादिच्छापूर्वकवीक्षाप्र- तिषेधोऽयमनिच्छापर्यवसित एवेति धर्मैक्यमनुसंधेयम् । अर्थावृत्तिदीपक प्रस्तुतानामप्रस्तुतानां वा, प्रतिवस्तूपमा तु प्रस्तुताप्रस्तुतानामिति विशेषः । आवृत्तिदीपक वैधम्य न संभवति, प्रतिवस्तूपमा तु वैधयॆण दृश्यते । यथा--- स्थिरेति ॥ शैली सद्वृत्तम् । रत्नमेव दीपो रत्नदीपः। अत्र पूर्वार्धमुपमेयवा- क्यमुत्तरार्धमुपमानवाक्यम् । उभयत्र व नाशाभावरूपः समानधर्मः शब्दभेदे- नोपात्तः । सामान्याभावमात्रबोधकस्यापि बाधतेरत्र नाशरूपविशेषपरखात् । अयमेव च पूर्वोदाहरणाद्भेदः॥ तवेति ॥ ईश्वरंप्रति भक्तस्योक्तिः 1 अमृतप्रस- वणशीले तव पादपङ्कजे निवेशित आत्माऽन्तःकरणं येन तादृशो भक्तोऽन्यद- मृतातिरिक्त फलं कथमिच्छति । न कथमपीत्यर्थः । अमृतं चात्र ब्रह्मानन्दरूपं हि निश्चितम् । मधुव्रतो भ्रमरो मकरन्देन रसेन निर्भरे व्याप्तेऽरविन्दे स्थिते सति इक्षुरसं न समीक्षत इत्युपमानवाक्यम् । अवर्जनीयस्येति ॥ अनिष्टे- ऽपि खसामग्रीवशाजायमानस्येत्यर्थः ॥ इच्छापूर्वकेति ॥ तथाच समीक्षतेरि- च्छापूर्वकवीक्षणे लक्षणेति भावः ॥ अनिच्छापर्यवसित इति ॥ सविशेष- णे हीति न्यायादिति भावः। उन्मीलन्ति कदम्बानीति पूर्वोदाहृतायामर्थावृत्ता- वतिव्याप्तिमाशयाह--अर्थावृत्तिरित्यादि ॥ शब्दावृत्तौ तु धर्मस्यैकेनैव शब्देनावृत्त्या बोधनान्न भिन्नशब्दबोध्यत्वमिति नातिव्याप्तिरतोऽर्थावृत्तिपर्यन्ता- नुधावनम् । एवंच भिन्नशब्दबोध्यैकधर्मगम्यं प्रस्तुताप्रस्तुतवाक्यार्थसादृश्यं प्र- तिवस्तूपमेति लक्षणं बोध्यम् । दृष्टान्तालंकारेऽव्याप्तिवारणाय भिन्नशब्दबो- ध्येति । तत्र तु बिम्बप्रतिबिम्बभावापन्नधर्मगम्यं सादृश्यमिति नातिव्याप्तिः। 'दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि इत्यादिवाक्यार्थोपमायामतिव्या- प्तिवारणाय गम्यमिति । अर्थावृत्तिवारणाय प्रस्तुताप्रस्तुतेति । 'आननं मृगशा- वाक्ष्या दीक्ष्य लोलालकावृतम् । भ्रमझमरसंकीर्ण मरामि सरसीरुम् ॥' इति स्मरणालंकारेऽतिव्याप्तिवारणाय वाक्यार्थेति । अत्र हि दिवि भातीति वाक्या- ोपमायां गमनाधिकरणशोभाश्रयभानुसहशो भूम्यधिकरणकशोभाश्रयस्वमि- ति प्रतीतिवन्न मर्यमाणतादृशसरोरुहसदृशं तथाविधमाननमिति प्रतीतिर्येन वाक्यार्थगतोपमा गम्या स्यात् , किंतु स्मरणासंपृक्ता तादृशसरोरुहसदृशं ताह- शमानन मिति पदार्थगतोपमैवेति तद्वारणमिति दिकू । प्रस्तुताप्रस्तुतयोश्चमत्कृ- तिविशेषाप्रयोजकतया वाऽलंकारमेदप्रयोजकत्वमित्यखरसादाह-अयंचेति।।