पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ कुवलयानन्दः। [सामान्यालंकारः ८० सामान्यालंकारः ८० सामान्यं यदि सादृश्याद्विशेषो नोपलक्ष्यते । पवाकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥ १४७ ॥ यथावा- रसस्तम्भेषु संक्रान्तप्रतिबिम्बशतैर्वृतः । लक्केश्वरः सभामध्ये न ज्ञातो वालिसूनुना ॥ . मीलितालंकारे एकेनापरस्य भिन्नस्वरूपानवभासरूपं मीलनं क्रियते। सामान्यालंकारे तु भिन्नस्वरूपावभासेऽपि व्यावर्तकविशेषो नोपलक्ष्यत इति भेदः । मीलितोदाहरणे हि चरणादेवस्त्वन्तरत्वेनागन्तुकं यावकादिन भा- सते । सामान्योदाहरणे तु पझानां मुखानां च व्यक्यन्तरतया भानमस्त्येव। यथा रावणदेहस्य तत्प्रतिबिम्बानां च, किंत्विदं पद्ममिदं मुखमयं बिम्बोऽयं प्रतिबिम्ब इति विशेषः परं नोपलक्ष्यते । अतएव मेदतिरोधानान्मीलितं तदतिरोधानेऽपि साम्येन व्यावर्तकानवभासे सामान्यमित्युभयोरप्यन्वर्थता। केचित्तु वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिदलीयसा तदन्यस्य स्वरूपति- रोधाने मीलितं स्वरूपप्रतीतावपि गुणसाम्याजेदतिरोधाने सामान्यम् । एवंच- अपाङ्गतरले दृशौ तरलवक्रवर्णा गिरो बिलासभरमन्धरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदन न महोदयः कृतपदोऽपि संलक्ष्यते ॥ इत्यन्न मीलितालंकारः । अनहि दृक्तारल्यादीनां नारीवपुषः सहजधर्म- त्यान्मदोदयकार्यत्वाच तदुभयसाधारण्यादुस्कृष्टतारल्यादियोगिना वपुषा म- दोदयस्य स्वरूपमेव तिरोधीयते । लिङ्गसाधारण्येन तज्ज्ञानोपायाभावात् । ... सामान्यमिति ॥ सामान्यमिति लक्ष्यनिर्देशः। विशेषो ब्यावर्तकधर्मः । पद्मानामाकरः ॥ रत्नस्तम्भेष्विति ॥वालिसूनुनाङ्गदेन । एकेन चरणज्योत्स्ना. दिना । अपरस्य लाक्षारसाभिसारिकादेः । मिन्नस्वरूपेति ॥ मुखपद्मादेभि- नस्य स्वरूपस्याबभासेऽपीत्यर्थः। उक्तमेवार्थमुदाहरणारूढत्तया विशदयति.... मीलितोदाहरणे हीत्यादिना ॥ वस्वन्तरत्वेन न भासत इखन्वयः। उत्प्रतिबिम्बानां च व्यक्त्यन्तरतया भानमस्त्येवेत्यनुषाः। केचिदित्यस्याहरित्य- ग्रिमेणान्वयः। केचित्प्रकाशकारादयः। तदुक्तम्---'समेन लक्ष्मणा वस्तु वस्तुना यनिगृह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥' इति तयोर्मध्ये एवं चेत्यस्येत्पत्र मीलितालंकार इत्यग्रेतनेनान्वयः॥ अपाङ्गेति ॥ अपाङ्गस्तरलो ययोस्ते । तरलाः सलरोच्चारणात् वत्रा वक्रोक्तिगर्भा वर्णा यासु ताः गिरो 'नव लक्ष्यते', २ “संक्रान्तः'. . RAMANANIYArenawr awayamtarnamam sryan FAIZIKSHAImanane K HANIPRITIKAMSHRArmybetimestindina's