पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
[ सर्गः ६
कुमारसंभवे

जरा इत्यर्थः। तथा कुसुमायुधात्कामात् अन्य इति शेषः । अन्तको मृत्युर्न ।अस्तीति शेषः। विरहिणां तादृग्दुःखोत्पादकत्वादन्तकत्वोपचारः । कामं विना मृत्युर्नास्तीत्यर्थः । अत एव तत्कार्यभूतमरणाभाव इत्याशयेनाह-रतीति । रतिखेदसमुत्पना निद्रा सुप्तिरेव संज्ञाविपर्ययश्चेतनापगमः । न तु दीर्घनिद्रारूप इत्यर्थः । अत्रत्याः सर्वेऽजरामरा इति श्लोकतात्पर्यार्थः । अन्तयत्यन्तं करोतीत्य- न्तकः । अन्तयतेस्तत्करोतीति ण्यन्ताद्यत्प्रत्ययः ॥ ४४ ॥

भ्ऱूभेदिभिः सकम्पोष्टललिताङ्गुलितर्जनैः । यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ॥४५॥</poem>}}

भ्ऱुभेदिभिरिति ॥ यत्र पुरे प्रिया युवानो भूभेदिभिर्भूभङ्गवद्भिः सकम्पा ओष्ठा येषु तैर्ललितान्यङ्गुलितर्जनानि येषु तैः स्त्रीणां कोपर्मानाख्यैराप्रसादार्थिन आ प्रसादं प्रसादपर्यन्तमर्थिनो याचकाः कृताः। न तु शत्रुकोपैरिति भावः॥४५॥ संतानकतरुच्छायासुप्तविद्याधराध्वगम् । यस्य चोपवनं बाह्यं गन्धवद्गन्धमादनम् ।। ४६॥ (कुलकम्)

संतानकेति ॥ किंचेति चार्थः । संतानकतरूणां छायासु सुप्ता विद्याधरा देवताविशेषास्त एवाध्वगा यस्मिंत्तत्तथोक्तं गन्धवद्गन्धाढ्यं गन्धमादनं नाम गिरिर्यस्य पुरस्य बहिर्भवं बाह्यमुपवनमारामः । अत्र 'गन्धवद्गन्धमादनम्' इत्यागन्तुकः पाठः । प्राचीनपाठस्तु 'सुगन्धिर्गन्धमादनः' इति पुंलिङ्गान्तः । अत एव क्षीरस्वामिना 'गन्धमादनमन्ये च' इत्यत्र गन्धेन मादयतीति गन्ध. मादन इति व्याख्याय प्रयोगे च पुंलिङ्गता दृश्यत इत्याशयेनोक्तं 'सुगन्धिर्गन्धमादनः'

इति 'कालिदासः' इति । संतानकतरुच्छायेत्यत्र पूर्वपदार्थबाहुल्यसंभवेऽपि 
'शलभच्छायम्', 'इक्षुच्छायम्' इतिवत्समर्थच्छायानिष्पत्तेस्तदपेक्षाभावात्

'छाया बाहुल्ये' (पा.२।४।२२) इति नपुंसकत्वं नास्तीत्यनुसंधेयम् ॥ ४६ ॥ अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् । स्वर्गाभिसंधिसुकृतं वश्चनामिव मेनिरे ॥ ४७ ॥</poem>}}

अथेति ॥ अथ ते दिवि भवा दिव्या मुनयो हिमवत इदं हैमवतं पुरं प्रेक्ष्य

पाठा०--१ सुगन्धि गन्धमादनम्. २ ततस्ते.