पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६८) सम्यक् विचार्य एतेषां अन्येषां वा संशोधनानां समर्थनं करिष्यन्ति । एतेषां संशोधनानां अध्यायक्रमानुसारं पुनः स्पष्टी- करण अत्र क्रियते । ( १ ) अस्माकं मतानुसारं इदं आवश्यकं अस्ति यत् वाक्येषु संहिता कदापि न कार्य्या स्यात् येन वाक्पदानां रूपाणि सुस्पष्टानि स्युः | वाक्ये पदानां पृथक् पृथक् स्थितिः आवश्यकी | एकपदे सन्धिः भवतु, धातूपसर्गयोः सन्धिः भवतु, परं वाक्यस्य विविधपदेपु सन्धिः कदापि न कार्ग्य: येन पदानि विरूपतांन गृह्णन्तु, तथा तानि सर्वाणि स्वरूपे तिष्ठन्तु | इदं गद्ये पद्ये च समानरूपेण भवतु । यथा गद्ये वाक्यानि भवन्ति तथा पद्ये अपि भवन्ति । कतिपयविद्वांसः मन्यन्ते यत् गद्य अपि सर्वासु दशास सन्धिः भवेत् यथा पद्ये मन्यते । गद्यविषये सर्वे विद्वांसः मन्यन्ते यत् वाक्येषु सन्धिः वैकल्पिकः विषयः अर्थात् सन्धिः क्रियेत नवा । संस्कृतव्याकरणे इदं कुत्रापि न दत्तं अस्ति यत् पद्येपु सर्वासु दशासु सन्धिः कार्यः । अनेन सिद्धयति यत् गद्यवाक्यानि स्युः पद्यवाक्यानि वा तेषु सन्धिः अका। द्वितीयाध्याये ( अस्य पुस्तकस्य ) अनेकानि व्याकरणप्रमाणानि दत्तानि अस्माभिः येन सुस्पष्टी भवति यत् एकपदे सन्धिः आवश्यकः परं वाक्यस्य विविधपदेपु सन्धिः व्याकरणसम्मतः न अस्ति। अस्य व्याकरणसम्मतनिवेदनस्य अयं निष्कर्षः यत् वाफ्येषु सन्धिः कदापिन कार्य: । "असंहिता- वाक्ये" एकं व्याकरणसम्मतं कल्याणकरं नवीनं अधिकारसूत्रं यत् विद्वद्भिः स्वीकार्य्यम् । · वाफ्येषु सन्धिः वैकल्पिकः इच्छाधीनः मन्येत चेन्, तदा दीयेत न वा । एतन्मतानुसारं वाफ्येषु सन्धिः न क्रियेत चेत् तदा