उत्फुल्लस्थलनलिनीवनादमुष्मादु[१]द्धूतः सरसिजसंभवः परागः । |
उत्फुल्लेति ॥ अस्मिन्नद्रौ वात्याभिर्वातसमूहैः । 'वातादिभ्यो यत्' इति थप्रत्ययः । अमुष्माद्दृश्यमाणादुत्फुल्लस्थलनलिनीवनात् । जलपतितस्य परागस्योत्थानासंभवात्स्थलग्रहणम् । उत्फुल्लसंफुल्लयोरुपसंख्यानान्निष्ठालत्वम् । उद्धूत उत्थापितो वियति समन्ताद्विवर्तितः परिमण्डलितः । अन्तराले तु दण्डायमान एवेति भावः । सरसिजसंभवः पद्मोद्भवः परागः । रूढ्यभिप्रायेणात्र सरसिजशब्दप्रयोगो द्रष्टव्यः । कनकमयातपत्रलक्ष्मीमाधत्तेऽनुकरोति । अत्र परागस्यातपत्रलक्ष्मीसंबन्धासंभवात्तत्सदृशीं लक्ष्मीमिति प्रतिबिम्बेनाक्षेपादसंभविधर्मसंबन्धेयं निदर्शना। तदुक्तम्--'असंभवद्धर्मयोगादुपमानोपमेययोः । प्रतिविम्बक्रियागम्या यत्र सा स्यान्निदर्शना ॥' इति ॥
इह सनियमयोः सुरापगायामुषसि सयावकसव्यपादरे[२]खा। |
इहेति ॥ इहाद्रावुषसि प्रभाते सुरापगायां लक्षणया तत्कुले सयावका सालक्तका सव्यपादस्य रेखा वामचरणमुद्रा यस्यां सा । 'यावोऽलक्तो द्रुमामयः' इत्यमरः । तथा विषमाणि महदल्पानि पदानि यस्यां सा विवर्तनेषु प्रदक्षिणक्रियासु पदवी । शिवयोः प्रदक्षिणपद्धतिरित्यर्थः । सनियमयोः । संध्यायां प्रणमतोरित्यर्थः । शिवा च शिवश्च तयोः शिवयोरुमाशंकरयोः। 'पुमान्स्त्रिया' इत्येकशेषः । शरीरयोगमर्धाङ्गसंघटनारूपं कथयति । सनियमयोरिति नियमविषयेऽपि विरहासहाविह विहरतः शिवाविति भावः । अत्र पदवीविशेपणपदार्थयोः कथनं प्रति हेतुत्वोक्त्या काव्यलिङ्गमलंकारः ॥
संमूर्च्छतां रजतभित्तिमयूखजालैरालोलपादपलतान्तरनिर्गतानाम् । |
संमूर्च्छतामिति ॥ इहाद्रौ रजतभित्तिमयूखजालैः संमूर्च्छतां बहुलीभवतामालो- लानां पादपलतानां तरुशाखानामन्तरेषु रन्ध्रेषु निर्गतानां प्रसूतानां धर्मद्युतेरुष्णांशो- र्धाम्नां तेजसामादर्शमण्डलनिभानि दर्पणबिम्बसदृशानीत्युपमालंकारः । पटलानि म-