गुणेति ।। जगतां महिते जगद्भिः पूजिते पूज्यमाने। 'मतिबुद्धि-'इत्यादिना वर्तमाने
क्तः। 'क्तस्य च वर्तमाने' इति षष्ठी । अत्र हिमवत्यौषधयस्तृणज्योतींषि नयशालिन्य-
धिपतौ नीतिसंपन्ने राज्ञि श्रियः संपद इव गुणसंपदा क्षेत्रगुणसंपत्त्या । अन्यत्र संध्या-
दिगुणसंपदा । परं महिमानम् । उभयत्रापि प्रकाशसामर्थ्यम् । समधिगम्य ज्वलितुं
प्रकाशितुं न विरमन्ति । अविरतं ज्वलन्तीत्यर्थः । अन्यत्र रात्रादावेवेति भावः ॥
कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् । |
कुररीति ॥ इहाद्रौ कुररीगण उत्क्रोशसङ्घः । 'उत्क्रोशकुररौ समौ' इत्यमरः । कृत- रवः कृतारवः। तरवः कुसुमैरानताः । कमलं जलं सकमलं सपद्मम्।'कमलं जलपद्मयोः इति विश्वः । यद्वा कं जलमलमत्यन्तं सपद्मं वर्तते । 'कं जले शिरसि च' इत्य- मरः । किंच । वरणा द्रुमा आवरणं यासां ता वरणावरणाः । 'वरणो वरुणः सेतुस्ति- क्तशाकः कुमारकः' इत्यमरः । सनलदाः सोशीराः । 'मूलेऽस्योशीरमस्त्रियाम् ।अभयं नलदं सेव्यम्' इत्यमरः । अनलं संतापं घन्ति खण्डयन्ति शमयन्तीत्यनलदाः । सनल- दाश्च ता अनलदाः सिन्धवो नद्यः करिणां मुदे । भवन्तीति शेषः । न कुत्राप्युक्तवैपरी- त्यमिति भावः॥
सादृश्यं गतमपनिद्रचूतगन्धैरामोदं मदजलसेकजं दधानः । |
सादृश्यमिति ॥ एतस्मिन्पर्वतेऽपनिद्रचूतगन्धैः सादृश्यं गतं फुल्लाम्रपुष्पगन्धसदृशं मदजलसेकजमामोदं परिमलं दधानो बिभ्राणः । अतएव लीनालिः संसक्तभृङग: सुरक- रिणाम् । कष्यतेऽनेनेति काष: । कपोलानां काषः कषणस्थानं द्रुमस्कन्धादि । अ- काले वसन्तातिरिक्त कालेऽपि कोकिलान्मदयति । 'मितां ह्रस्वः' इति हस्वः । अत्र वसन्तरूपकारणाभावेऽपि मदाख्यकार्योत्पत्तिकथनाद्विभावनालंकारः । तदुक्तम्- 'कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना' इति । सा च चूतगन्धैः सादृश्यमित्युप- मया वामोदं दधान इति पदार्थहेतुककाव्यलिङ्गेन चाङ्गाङ्गिभावेन संकीर्यते । किंच को- किलानां मदगन्धे चूतगन्धभ्रान्त्या भ्रान्तिमदलंकारो व्यज्यते । प्रहर्षिणीवृत्तम्-'म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्' इति लक्षणात् ॥
सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् । |
सनाकेति ॥ पुनश्च । सनाकवनितं साप्सरस्कं नितम्बै: कटकै रुचिरं सुनिनदैः सु