ष्पिकाकुसुमानि तेषां त्विष इव त्विषो येषां ते तेषाम् । 'ओड्रपुष्पं जपापुष्पं रूपिका
ताम्रपुष्पिका' इति वाग्भटः । द्युतिमतां महाश्मनां मणीनाम् । पद्मरागाणामित्यर्थः ।
विशेषणसामर्थ्यात् । निकरेण समूहेन हेतुना क्वचिन्निचिताः संघटिताः काञ्चनभित्तयो
येषु तेषु सानुषु विहिताः सांध्याः संध्यायां भवा मयूखा यस्सिम्स्तमिव स्थितम् ।
काञ्चनभित्तिषु पद्मरागप्रभाप्रसरादुदितसंध्याराग इव भातीत्युत्प्रेक्षा ॥
पृथुकदम्बकदम्बकराजितं ग्रथितमालतमालवनाकुलम् । |
पृथ्विति ॥ पुनश्च । पृथुभिः कदम्बतां कदम्बकैर्नीपकुसुमसमूहै राजितम् । 'कदम्बमाहुः सिद्धार्थे नीपे च निकुरम्बके' इत्युभयत्रापि विश्वः । प्रथितमालैर्बद्धपङ्क्तिभि- स्तमालवनैस्तापिञ्छवनैराकुलमाकीर्णम्। 'कालस्कन्धस्तमालः स्यात्तापिञ्छोऽपि' इत्यमरः । लघुतुषारमल्पशीकरं यत्तुषारजलं हिमोदकं श्च्योतति वर्षति तं तथोक्तम् । 'तुषारौ हिमसीकरौ' इति शाश्वतः । 'अन्येभ्योऽपि दृश्यते' इति क्विप् । सदानाः समदाः सदाननाः शोभनाननाश्च ये दन्तिनस्ते धृता येन तं तथोक्तम् ॥
रहितरत्नचयान्न शिलोच्चयानपलताभवना न दरीभुवः । |
रहितेति । पुनश्च । रहितरत्नचयान् रहितः परित्यक्तो रत्नचयो यैस्तान् रत्नराशिरहिताञ्छिलोच्चयाञ्छिखराणि न दधतम् । अपलताभवना लतागृहरहितां दरीभुवो गुहाप्रदेशान्न दधतम् । 'दरी तु कंदरो वा स्त्रीदेवखातविले गुहा' इत्यमरः । विगतानि पुलिनान्यम्बुरुहाणि च यासां ताः। सरितो वध्व इव ताः सरिद्वधूर्न दधतम् । अत्र सरितां वध्वौपम्यात्पुलिनानामम्बुरुहाणां च वदनजघनौपम्यं गम्यते । अकुसुमान्महीरुहोवृक्षान्न दधतम् । किंतु रत्नादिसंपन्नानेव शिलोच्चयादीन्दधतमित्यर्थः । महाविभाषया नात्र नञ्समासः॥
व्यथितसिन्धुमनीर[२]शनैः शनैरमरलोकवधूजघनैर्धनैः । |
व्यथितेति ॥ पुनश्च । अनीरशनैरनिर्मेखलैः।सरशनैरित्यर्थः। घनैर्निबिडैरमरलोकव- धूजघनैः शनैर्मन्दंमन्दं व्यथितसिन्धुं क्षोभितनदीकम् । अयमपरः स्वर्ग इति भावः। ये रम्या लताश्च बकुलाः केसराश्च ते दयिताः प्रिया येषां तैस्तथोक्तैः ।'विशारदो मद्यगन्धो बकुलः स च केसरः' इति वैद्यके । फणभृतां सर्पाणां कुलैरभितस्ततं व्याप्तं तथा विततं विस्तृतम् ॥