पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ।।

महाकविश्रीभारविप्रणीतं

किरातार्जुनीयम् ।

मल्लिनाथकृतया घण्टापथव्याख्यया समेतम्।


प्रथमः सर्गः ।

अर्धाङ्गीकृतदांपत्यमपि गाढानुरागि यत् ।
पितृभ्यां जगतस्तस्मै कस्मैचिन्महसे नमः ॥
आलम्बे जगदालम्बं हेरम्बचरणाम्बुजम् ।
शुष्यन्ति यद्रजःस्पर्शात्सद्यः प्रत्यूहवार्धयः॥
तद्दिव्यमव्ययं धाम सारस्वतमुपास्महे ।
यत्प्रकाशात्प्रलीयन्ते मोहान्धतमसञ्छटाः ॥

 वाणीं काणभुजीमजीगणदवाशासीच्च वैयासकी-
मन्तस्तन्त्रमरम्स्त पन्नगगवीगुम्फेषु चाजागरीत् ।
'वाचामाचकलद्रहस्यमखिलं यश्चाक्षपादस्फुरां
लोकेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः ।।

मल्लिनाथकविः सोऽयं मन्दात्मानुजिघृक्षया ।।
 तत्किरातार्जुनीयाख्य काव्यं व्याख्यातुमिच्छति ॥

नारिकेलफलसंमितं वचो भारवेः सपदि तद्विभज्यते ।
स्वादयन्तु रसगर्भनिर्भर सारमस्य रसिका यथेप्सितम् ॥

नानानिबन्धविषमैकपदैर्नितान्त साशङ्कचङ्क्रमणखिन्नधियामशङ्कम् ।।
कर्तुं प्रवेशमिह भारविकाव्यबन्धे घण्टापथं कमपि नूनमातनिष्ये ॥

इहान्वयमुखेनैव सर्व व्याख्यायते मया।
नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥

 अथ तत्रभवान्भारविनामा कविः ‘काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये। सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' इत्याद्यालंकारिकवचन प्रामाण्यात्काव्यस्यानेकश्रेयःसाधनताम्, 'काव्यालापांश्च वर्जयेत्' इति निषेधशास्त्र स्यासत्काव्यविषयतां च पश्यन्किरातार्जुनीयाख्यं महाकाव्यं चिकीर्षुश्चिकीर्षितार्था