पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
द्वितीयः सर्गः । ।

सहसोपगतः सविस्मयं तपसां सूतिरसूतिरा[१]पदाम् ।
ददृशे जगतीभुजा मुनिः स वपुष्मानिव पुण्यसंचयः ॥५६॥

 सहसेति ॥ पुनः सहसोपगतोऽकस्मादागतस्तपसां सूतिः प्रभव आपदामसूतिरप्रभवः । निवर्तक इति यावत् । स मुनिर्व्यासो वपुष्मान्देहधारी पुण्यसंचयः पुण्यराशिरिवेत्युत्प्रेक्षा । जगतीभुजा राज्ञा सविस्मयं ददृशे दृष्टः ।।

अथोच्चकैरासनतः परार्ध्यादुद्यन्स[२]धुतारुणवल्कलाग्रः ।
रराज कीर्णाकपिशांशुजालः शृङ्गात्सुमेरोरिव ति[३]ग्मरश्मिः ॥५७॥

 अथेति ॥ अथ दर्शनानन्तरम् । उच्चकैरुन्नतात्परार्ध्याच्छ्रेष्ठात् । ‘अर्धाद्यत्' । परा- वराधमोत्तमपूर्वाच्च' इति यत्प्रत्ययः । आसनतः सिंहासनादुद्यन्नुत्तिष्ठन्नत एव धूतानि कम्पितान्यरुणानि वल्कलाग्राणि यस्य स तथोक्तः। स नृपः कीर्णं विस्तृतमाकपिश- मंशुजालं यस्य स तथोक्तः । सुमेरोः शृङ्गादुद्यंस्तिग्मरश्मिरिव । रराज ॥

 

अवहितहृदयो विधाय सो[४]ऽर्हामृषिवदृषिप्रवरे गुरूपदिष्टाम् ।
तदनुमतमलंचकार पश्चात्प्रशम इव श्रुतमासनं नरेन्द्रः ॥५८॥

 अवहितेति ॥ स नरेन्द्रोऽवहितहृदयोऽप्रमत्तचित्तः सन् । ऋषिप्रवरे मुनिश्रेष्ठे । ऋषिवदृष्यर्हाम् । अर्हार्थं वतिप्रत्ययः । गुरूपदिष्टाम् । शास्त्रीयामित्यर्थः । अर्हां पूजाम्। 'गुरोश्च हलः' इत्यकार प्रत्ययः । विधाय पश्चादनन्तरं तदनुमतं तेनानुज्ञातमासनम् । प्रशमः शान्तिः श्रुतं शास्त्रश्रवणमिव । अलंचकार । उक्तं च--'प्रशमस्तस्य भवत्यलं क्रिया' इति । मुन्याज्ञयोपविष्टवानित्यर्थः ॥

व्यक्तोदितस्मितमयूखवि[५]भासितोष्ठस्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः ।
तन्वन्तमिद्धमभितो गुरुमंशुजालं लक्ष्मीमुवाह सकलस्य श[६]शाङ्कमूर्तेः ॥५९॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये द्वितीयः सर्गः ।

 व्यक्तेति ।। व्यक्तोदितैः स्फुटोद्गतैः स्मितमयूखैर्विभासितावोष्ठौ यस्य स तथोक्तः । विकीर्णधाम्नो विस्तीर्णतेजसो मुनेरभिमुखं तिष्ठन्स नृपः । इद्धं दीप्तमंशुजालं तन्वन्तं गुरुं गष्पितिम् । 'गुरुर्गीष्पतिपित्रादौ' इत्यमरः । 'अभितःपरितः' इत्यादिना द्वितीया । अभितोऽभिमुखम् । तिष्ठत इति शेषः । सकलस्य संपूर्णस्य शशाङ्का मूर्ति-


  1. 'एनसाम्' इति पाठः,
  2. 'सुधौतारुण' इति पाठः,
  3. 'घर्मरश्मि:' इति पाठः,
  4. 'पूजां ' इति पाठः,
  5. 'विकासितोष्ठ:'इति पाठ:
  6. 'मृगाङ्कमूर्तेः'इति पाठ: