पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
किरातार्जुनीये

 विमृष्य कुर्वतः क्रियाप्रकारमाह-

समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् ।
अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः ॥३८॥

समेति ॥ यः । समा नातिमुदुर्नातितिग्मा वृत्तिर्यस्य स समंवृत्तिः सन्समये सत्यवसरे मार्दवं मृदुवृत्तित्वमुपैति तिग्मतां तीक्ष्णवृत्तित्वं च तनोति । स मेदिनीपतिर्विवस्वानिव ओजसा तेजसा लोकमधितिष्ठत्याक्रामति । सूर्योऽपि ऋतुभेदेने समवृत्तिरित्यादि योज्यम् ॥

 उक्तान्यथाकरणेऽनिष्टमाह---

क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता ।
शरदभ्रचलाश्चलेन्द्रियैरसुरक्षा हि बहुच्छलाः श्रियः ॥३९॥

 क्वेति ॥ श्रियां सम्पदां चिराय बहुकालं परिग्रहः स्वायत्तीकरणं क्व । इन्द्रियाणि चाजिन इवेति समासः । दुष्टानाममार्गधाविनामिन्द्रियवाजिनां वश्यो वशंगतस्तस्य भावस्तत्ता क्व । नोभयमेकत्र तिष्ठतीत्यर्थः । कुतः । हि यस्माच्छरदभ्रवच्चलाश्चञ्चलाः । किंच बहुच्छला बहुव्याजाः । बहुरन्ध्रा इति यावत् । 'छलं तु स्खलिते व्याजे' इति विश्वः । श्रियः संपदः । चलेन्द्रियैरजितेन्द्रियैरसुरक्षा रक्षितुमशक्या; । कथंचित्प्राप्ता अपि श्रियो नाविनीतेषु तिष्ठन्तीत्यर्थः । वाक्यार्थहेतुकं काव्यलिङ्गमलंकार: ॥

 क्रोधस्य दुष्ठतामुक्त्वा तस्य त्यागमुपदिशति-----

किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः ।
क्रियते पतिरुच्चकैरपां भवता धीरतयाधरीकृतः ॥४०॥

 किमिति ॥ उपात्तरंहसः प्राप्तत्वरस्य मनसः । समयोऽस्य प्राप्तः सामयिकः। 'समयस्तदस्य प्राप्तम्' इति ठञ् । स न भवतीत्यसामयिकस्तमप्राप्तकालं क्षोभं वितन्वता भवता धीरतया धैर्यगुणेन । 'मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुषुः' इति रसिकाः । अधरीकृतस्तिरस्कृतः । प्रागिति शेषः । अपां पतिः समुद्रः किं किमर्थमुच्चकैरधिकः क्रियते । न पराजितं पुनरुच्चकैः कुर्यादिति भावः । अत्र वितन्वतेति भीमविशेषणत्वेन अपांपतिपदार्थस्योच्चै: करणे हेतुत्वोक्त्या काव्यलिङ्गमलंकारः ॥ ' '

श्रुतमप्यधिगम्य ये रिपून्विनयन्ते न शरीरजन्मृनः ।
जनयन्त्यचिराय संपदामयशस्ते खलु चापलाश्रयम् ॥४१।।

 श्रुतमिति ॥ किंच । ये श्रुतं शास्त्रमधिगम्यापि शरीरजन्मनः शरीरप्रभवान् रिपून्का- मक्रोधादीन्न विनयन्ते न नियच्छन्ति । 'कर्तृस्थे चाशरीरे कर्मणि' इत्यात्मनेपदम् । ते