पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
किरातार्जुनीये

 अचिरेणेति ॥ कृतमनेनेति कृती । कुशल इत्यर्थः। ‘इष्टादिभ्यश्च' इतीनिप्रत्ययः । परस्य शत्रोः क्षययुक्तिं क्षययोगमचिरेणाशुभाविनीं भूयसीम् दुरन्तां च, तथात्मनः क्षययुक्तिं विपरीतां चिरभाविनीमल्पीयसीं च विगणय्य विचार्य । 'ल्यपि लघुपूर्वात्' इत्ययादेशः । उपेक्षते । अन्यथोक्तवैपरीत्ये । परस्य क्षययुक्तावल्पीयस्याम्, स्वस्य भूयस्यां च सत्यामित्यर्थः । तत्प्रतिकारं तस्याः क्षययुक्तेः प्रतिकारमचिरेणाशु कुरुते । एवं सति यदा शत्रेरभ्युदयः स्वस्य चातिपरिक्षयो यथास्माकं तदा किं वक्तव्यम् । सद्यः । प्रतिकुरुत इत्यर्थात्सिद्धमनुसंधेयम् ॥

 तथाप्युपेक्षायामनिष्टमाचष्टे--

अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया।
अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥१०॥

अनुपालयतामिति ॥ उदेष्यतीं वर्धिष्यमाणाम् । 'आच्छीनद्योर्नुम्' इति विक- ल्पान्नुमभावः । द्विषतां प्रभुशक्तिं कोशदण्डजं तेजः । ‘स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्' इत्यमरः । अनीहयानुत्साहेनानुपालयतामुपेक्षमाणानां महीभुजां श्रियः संपदो जननिर्वादभयान्निकृष्टपुरुषानुरागोत्थलोकापवादभयादिवेति हेतृत्प्रेक्षा। अचिरादपयान्त्यपसरन्ति । यथा कामन्दकः--'स्त्रीभिः षण्ढ़ इव श्रीभिरलसः परिभूयते' इति । अतः पराक्रमितव्यमित्यर्थः ॥

 ननु परिक्षीणः कथं प्रबलेनाभियुज्यत इयत्राह---

क्षययुक्तमपि स्वभावजं दधतं धाम शिवं स[१]मृद्धये ।
प्रणमन्त्यन्नपायमु[२]त्थितं प्रतिपच्चन्द्रामिव प्रजा नृपम् ॥११॥

 क्षयेति ॥ क्षययुक्तमप्ति तथा क्षीणमपि सन्तं स्वभावजं सहजं शिवं सर्वलोकाह्लादकं धाम क्षात्रं तेजः प्रकाशं च दधतं समृद्धये वृद्ध्यर्थमुत्थितमुद्युक्तम्। वर्धिष्णुमित्यर्थः । नृपं प्रजाः । प्रतिपच्चन्द्रं द्वितीयाचन्द्रमिवेत्यर्थः । प्रतिपच्छब्देन द्विती- याग्रहणम् । प्रतिपदि तस्यादृश्यत्वादिति । प्रणमान्ति । प्रह्वीभावेन वर्तन्त इति भावः । चन्द्रं तु नमस्कुर्वन्ति । क्षीणस्याप्युत्साहः कार्यसिद्धेर्निदानमित्यर्थः । ‘जयं हि सत- तोत्साही दुर्बलोऽपि समश्रुते' इति कामन्दकः ॥

 ननु प्रभुशक्तिशून्यस्योत्साहः कुत्रोपयुज्यत इत्यत्राह----

प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः ।
स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥१२॥

 प्रभवइति । कर्मणामाराम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपातप्रतीकार; कार्यसिद्धिश्चेति पञ्चाङ्गानि । यथाह कामन्दकः-'सहायाः साधनोपाया विभागो दे-


  1. ‘विवृद्धये' इति पाठः,
  2. ‘उर्च्छृितम्' इति पाठः,