पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५१
पञ्चदशः सर्गः।

  विफलीति ।। शंभुना क्षतबाणस्यातएव विफलीकृतयत्नस्य निष्फलप्रयत्नस्य गाण्डीवं धनुर्यस्य तस्य गाण्डीवधन्वनोऽर्जुनस्य । 'वा संज्ञायाम्' इत्यनङादेशः । खेभ्य इन्द्रियरन्ध्रेभ्यः । 'खमिन्द्रिये सुखे स्वर्ग' इति विश्वः । हुताशनोऽग्निर्निश्चक्राम निष्क्रान्तः। क्रोधादिति भावः ॥

स पिशङ्गजटावलिः किरन्नुरुतेजः परमेण मन्युना ।
ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥४७॥

  स इति॥पिशङ्गजटावलिः पिशङ्गजटाजूटः परमेणोत्कृष्टेन मनुना क्रोधेनोरु महत्तेजः किरन्विक्षिपन्सोऽर्जुनो ज्वलिता ओषधयस्तृणज्योतींषि जातवेदा दवाग्निश्च यस्मिम्स्तेन हिमशैलेन समं तुल्यं हिमाद्रिरिव विदिद्युते हिमाद्रिवच्छुशुभ इति बिम्बप्रतिबिम्बभावोपमा ।।

शतशो विशिखानवद्यते भृशमस्मै रणवेगशालिने ।
प्रथयन्ननिवार्यवीर्यतां प्रजिघायेषुमघातुकं शिवः ॥४८॥

  शतश इति ॥ शिवः शतशो विशिखानवद्यते खण्डयते रणवेगशालिने रणसंरम्भ- शोभिनेऽस्मै पार्थाय भृशमत्यर्थमनिवार्यवीर्यताम् । निजामिति शेषः। तस्मै प्रथयन्दर्शयन्। किं त्वधातुकममारकम् । 'लषपत-' इत्यादिना हन्तेरुकञ् । इषुम् । जातावेकवचनम्। प्रजिघाय प्रयुयुजे । 'हि गतौ' इति धातोर्लिट् । 'हेरचङि' इति कुत्वम् ।।

शंभोर्धनुर्मण्डलतः प्रवृत्तं तं मण्डलादंशुमिवांशुभर्तुः ।
निवारयिष्यन्विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥४९॥

  शंभोरिति ॥ सितांश्वोऽर्जुनः शंभोर्धनुर्मण्डलतो धनुर्वलयात्प्रवृत्तं निष्क्रान्तं तमिषुम् । अंशुभर्तुरर्कस्य मण्डलात्प्रवृत्तमंशुमिव । अत्रापीषुवज्जातावेकवचनम् । निवारयिष्यन्निवारयितुकामः । क्रियार्थक्रियायां लृटि तस्य शत्रादेशः । धरित्रीं भुवं शिलीमुखानां छाया शिलीमुखच्छायम् । 'छाया बाहुल्ये' इति नपुंसकत्वम् । तेन वृतां व्याप्तां विदधे कृतवान् । शरजालच्छायावृतां धरित्रीमकरोदित्यर्थः । उपमालंकारः ॥

घनं विदार्यार्जुनबाणपूगं ससारवाणोऽयुगलोचनस्य ।
घनं विदार्यार्जुनबाणपूगं ससार बाणोऽयुगलोचनस्य ॥५०॥

  घनमिति ॥ अयुगलोचनस्य विषमनेत्रस्येशस्यालोचनस्य । लोच्यतेऽसौ लोचनः । कर्मणि ल्युट् । न लोचनोऽलोचनस्तस्यालोचनस्याचाक्षुषज्ञानविषयस्य संबन्धी सारो बलं वाणः शब्दस्ताभ्यां सारवाणाभ्यां स्थिरशब्दाभ्यां सह वर्तते इति ससारवाणः । बवयोरभेद इत्युक्तम् । न युज्यते कुत्रापीत्ययुक्सङ्गरहितः। क्विप् । बाणः शरः । जाता- वेकवचनम् । घनं सान्द्रमर्जुनस्य बाणपूगं शरव्रातं विदार्य विभिद्य घनं निबिडं विदार्यो भूमिकूष्माण्ड्यो लताविशेषा अर्जुनाः ककुभवृक्षा बाणा नीलसैरेयकाः पूगाः क्र-