पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
किरातार्जुनीये


स्मिन् । अत्यन्ताकम्पन इत्यर्थः । 'एजृ कम्पने' । पचाद्यच् । न कोकते नादत्त इत्यकुको ग्रहणासमर्थः शात्रवो यस्मिंस्तस्मिन्नकुकशात्रवे। 'कुक आदाने' । पचाद्यच् । शैले पर्वते । केषां भावः किंता कुत्सितता तयोपलक्षिताः सन्तः। 'कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द इष्यते' इति शाश्वतः। विदिशो जेतुं यात गच्छत किम् । यातेः संप्रश्ने लोट् मध्यमपुरुषबहुवचनम् । दिवि स्वर्गेऽपि । तुञ्जेश इति तेषां संबोधनम् । तुञ्जन्त इति तुञ्जा हिंसका दैत्याः । 'तुजि हिंसायाम्।। पचाद्यच्। तेभ्यो दैत्येभ्य ईशत इति तुञ्जेशः। ईशेः क्विप् । तेभ्योऽपि शक्ता इत्यर्थः । स्वर्गेऽप्यसुरविजयिनां युष्माकमत्र क्षुद्गस्थले क्षुद्रशत्रौ पलायनमनुचितमिति भावः। प्रतिलोमानुलोमपादः॥

  नन्वनाथा वयं पलायामह इति तच्च न युक्तमित्याह-

अयं वः क्लैब्यमापन्नान्दृष्टपृष्ठानरातिना।
[१]च्छतीशश्च्युताचारान्दारानिव निगो[२]पितुम् ॥१९॥

  अयमिति ॥ अयमीशः स्वामी शिवः क्लैब्यं निष्पौरुषत्वमापन्नान्प्राप्तांस्तथारातिना दृष्टपृष्ठान् । पलायमानानित्यर्थः। वो युष्मांश्च्युताचारान्स्खलितव्रतान्दारान्कलत्राणीव। 'अथ पूंभूम्नि दाराः' इत्यमरः । निगोपितुं गोप्तुम् । ऊदित्त्वादिङ्विकल्पः। दारदोषं भर्तेव स्वमहिम्ना युष्मद्दोषं संवरितुमिच्छति। अतः कुत्रो युष्माकमनर्थ इत्यर्थः॥

ननु हो मथना राघो घोरा नाथमहो नु न।
तयदातवदा भीमा माभीदा बत दायत ॥२०॥

  नन्विति॥नन्वित्यामन्त्रणे। हो इत्याह्वाने।'हे है व्यस्तौ समस्तौ च हतिसंबोधनार्थयोः। हो हौ चैवंविधौ ज्ञेयौ संबुद्ध्याह्वानयोरपि' इति विश्व:। मथ्नन्तीति मथनाः । 'मन्थ विलोडने' । कर्तरि ल्युट् । राघन्ति समर्था भवन्तीति राघः। 'राघृ सामर्थ्ये' क्विप् । घोराः क्रूराः । शत्रूणामिति भावः । नाथं महयन्ति पूजयन्तीति नाथमहः। दृशिग्रहणात्कर्मण्युपपदे क्विप् । तयन्ति रक्षन्तीति तया रक्षकाः। पचाद्यच् । दायन्तीति दाताः शुद्धाः । 'दैप् शोधने' । कर्तरि क्तः । वदन्तीति वदा वक्तारः । पचाद्यच् । तेषां द्वन्द्वस्तयदातवदाः। भीमा भयंकरा माभीः । नञर्थमाशब्दस्य सुप्सुपेति समासः। तान्ददतीति माभीदा अभयप्रदाः । एवंविधा यूयमिति शेषः। बतेति खेदे । बवयोरभेदः। न दायत नु न शुद्धाः किम् । नु पृच्छायाम् । किंतु शुद्धा एव । काकुरत्रानुसंधेयः । 'दैपु शोधने' । लोट् । मध्यमपुरुषबहुवचनम् । प्रतिलोमानुलोमपादः ॥

किं त्यक्तापास्तदेवत्वमानुष्यकपरिग्रहै: ।
ज्वलितान्यगुणैर्वी स्थिता तेजसि मानिता ॥२१॥

  किमिति ॥ अपास्तोऽवधीरितो देवत्वमानुष्यकयोः परिग्रहः स्वीकारो यैस्तैः । अ-


  1. 'वाञ्छति' इति पाठः
  2. 'विगोपितुम्' इति पाठः