पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
चतुर्दशः सर्गः।


  अथास्य विज्ञापनमेवाह-

सज्यं धनुर्वहति योऽहिपतिस्थवीयः स्थेयाञ्जयन्हरितुरंगमकेतुलक्ष्मीम् ।
अस्यानुकूलय मतिं मतिमन्ननेन सरव्या सु[१]खं स[२]मभियास्यसि चिन्तितानि ॥७१॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये त्रयोदशः सर्गः।

  सज्यमिति ॥ स्थेयान्स्थिरतरः । 'प्रियस्थिर-' इत्यादिना स्थादेशः । यश्चमूपति- र्हरितुरंगमकेतोरिन्द्रध्वजस्य लक्ष्मीं शोभां जयन्।अहिपतिः शेष इव स्थवीयः स्थूलतरम्। 'स्थूलदूर-' इत्यादिना पूर्वगुणयणादिपरलोपौ । सह ज्यया सज्यं धनुर्वहति । हे मतिमन्, अस्य चमूपतेर्मतिमनुकूलयानुकूलां कुरु । सख्यं कुर्वित्यर्थः । मतिमत्तायाः फलमेतदिति भावः । कुतः । सख्यानेन चमूपतिना हेतुना सुखमक्लेशेन चिन्तितानि मनोरथान्समभियास्यसि प्राप्स्यसि । वसन्ततिलकावृत्तम् ॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां त्रयोदशः सर्गः समाप्तः ॥


चतुर्दशः सर्गः।


ततः किरातस्य वचोभिरुद्धतैः पराहतः शैल इवार्णवाम्बुभिः ।
जहौ न धैर्यं कु[३]पितोऽपि पाण्डवःसुदुर्ग्रहान्तःकरणा हि सा[४]धवः॥१॥

  तत इति ॥ ततः किरातवाक्यानन्तरमुद्धतै:प्रगल्भैः किरातस्य वचोभिः।अर्णवाम्बुभिः शैल इव पराहतोऽभिहतोऽत एव कुपितोऽपि पाण्डवो धैर्यं निर्विकारचित्तत्त्वं न जहौ न तत्याज। उत्पन्नमपि कोपं स्तम्भयामासेत्यर्थः । तथा हि । साधवः सजनाः सुदुर्ग्रहं सुष्ठु दुरासदमप्रकम्प्यमन्तःकरणं येषां ते सुदुर्ग्रहान्तःकरणा हि । अर्थान्तरन्यासः॥

[५]लेशमुल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसंग्रहे ।
[६]यं प्रमाणीकृतकालसाधनःप्रशान्तसंरम्भ इवाददे वचः ॥२॥

  सलेशमिति ॥ सह लेशैः सलेशं सकलं यथा तथोल्लिङ्गितमुद्भूतलिङ्गं कृतम् । लिङ्गैस्तद्वाक्यभङ्गिभिरेव सम्यगवगतमित्यर्थः । शत्रुरेव शात्रवः । स्वार्थेऽण्प्रत्ययः ।


  1. 'समं' इति पाठः
  2. 'समुपयास्यसि' इति पाठः
  3. 'रुषितोऽपि' इति पाठः
  4. 'सूरयः' इति पाठः
  5. 'अशेष' इति पाठः
  6. 'इदम्' इति पाठः