पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
किरातार्जुनीये


  वितर्कान्तरमाह-

बहुशः कृतसत्कृतेर्विधातुं प्रियमिच्छन्नथवा सुयोधनस्य ।
क्षुभितं वनगोचराभियोगाद्गणमाशिश्रियंदाकुलं तिरश्चाम् ॥ १०॥

  बहुश इति ॥ अथवा बहुशः कृता सत्कृतिः सत्कारो येन तस्य दुर्योधनस्य प्रियं मद्वधरूपं प्रतिप्रियं विधातुं कर्तुमिच्छन् । यः कश्चिदिति शेषः । वनं गोचरः स्थानं येषां तेषां वनगोचराणामभियोगादवरोधात् । 'अभियोगोऽवरोधः स्यात्' इति हलायुधः । क्षुभितमुद्विग्नमाकुलं चलं तिरश्चां मृगादिपशूनां गणमाशिश्रियद्वराहरूपेण प्राविक्षत्। 'णिश्रिद्रुस्नुभ्यः कर्तरि चङ्' । 'चङि' इति द्विर्भावः ॥

  वितर्कान्तरमाह-

अवलीढसनाभिर[१]श्वसेनः प्रसभं खाण्डवजातवेदसा वा।
प्रतिकर्तुमुपागतः समन्युः कृ[२]तमन्युर्यदि वा वृकोदरेण ॥११॥

  अवलीढेति ॥ खाण्डवजातवेदसा खाण्डववनाग्निना प्रसभमवलीढसनाभिर्दग्धबन्धुः। 'सपिण्डास्तु सनाभयः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः' इत्यमरः।अत एव समन्युर्बद्धवैरः । तस्यार्जुनस्यापकारयितृत्वादिति भावः । अश्वसेनस्तक्षकपुषः कश्चिन्महासर्पः प्रतिकर्तुं वैरनिर्यातनार्थमुपागतो वा । वराहमाययेति शेषः । पक्षान्तरमाह- यदि वा वृकोदरेण भीमसेनेन कृतमन्युर्जनितक्रोधो वा । कश्चिदिति शेषः । पुरा किल पाण्डवः खाण्डवदाहे पावकभयात्पलायमानांस्तक्षकपुत्रानश्वसेनस्य बन्धून्वाणैरवरुध्य दाहयामासेति भारतकथा ॥

  अथ द्वाभ्यामनन्तरकरणीयमध्यवस्यति--बलेत्यादिना ॥

बलशालितया यथा तथा वा धियमुच्छेदपरामयं दधानः ।
नियमेन मया निबर्हणीयः परमं लाभमरातिभङ्गमाहुः ॥ १२॥

  किंबहुना । यथा तथा वास्तु । अयं मायिकः पारमार्थिको वास्त्वित्यर्थः । सर्वथापि बलशालितया। बलदृप्ततयेत्यर्थः । उच्छेदपरां धियं दधानः । मां जिघांसुरित्यर्थः । अतोऽयं मृगो नियमेनावश्यं मया निबर्हणीयो वध्यः । 'प्रमापणं निबर्हणम्' इत्यमरः । तथा हि । अरातिभङ्गं शत्रुक्षयं परमं लाभमाहुः ॥

  ननु तपोविरोधिनी हिंसेत्याशङ्ख्याह-

कुरु तात तपांस्यमार्गदायी विजयायेत्यलमन्वशान्मुनिर्माम् ।
बलिनश्च वधादृतेऽस्य शक्यं व्रतसंरक्षणमन्यथा न कर्तुम् ॥ १३ ॥


  1. 'उद्गतेन' इति पाठः
  2. 'कृतवैरः' इति पाठः